________________
काव्यमाला।
तस्य काव्यपदार्थस्य । एषैव च वेदपुराणादिलक्षणेष्वपि गतिः । अन्यथा तत्रापीयं दुरवस्था स्यात् । यत्त्वाखादोद्बोधकत्वमेव काव्यत्वप्रयोजकं तच्च शब्दे चार्थे चाविशिष्टमित्याहुः, तन्न । रागस्यापि रसव्यञ्जकताया ध्वनिकारादिसकलालंकारिकसंमतत्वेन प्रकृते लक्षणीयत्वापत्तेः । किं बहुना नाट्याङ्गानां सर्वेषामपि प्रायशस्तथात्वेन तत्त्वापत्तिर्दुवारैव । एतेन रसोहोधसमर्थस्यैवात्र लक्ष्यत्वमित्यपि परास्तम् । अपि च काव्यपदप्रवृत्तिनिमित्तं शब्दार्थयोासक्तम् , प्रत्येकपर्याप्तं वा । नाद्यः । एको न द्वाविति व्यवहारस्येव श्लोकवाक्यं न काव्यमिति व्यवहारस्यापत्तेः । न द्वितीयः । एकस्मिन्पद्ये काव्यद्वयव्यवहारापत्तेः । तस्माद्वेदशास्त्रपुराणलक्षणस्येव काव्यलक्षणस्यापि शब्दनिष्ठतैवोचिता । लक्षणे गुणालंकारादिनिवेशोऽपि न युक्तः । 'उदितं मण्डलं विधोः' इति काव्ये दूत्यभिसारिकाविरहिण्यादिसमुदीरितेऽभिसरणविधिनिषेधजीवनाभावादिपरे ‘गतोऽस्तमर्कः' इत्यादौ चाव्यास्यापत्तेः । न चेदमकाव्यमिति शक्यं वदितुम् । काव्यतया पराभिम
माह-एषैव चेति । अन्यथा वेदलादेरुभयत्राङ्गीकारे । दुरवस्था व्यवहारोच्छेदापत्तिरूपा । लक्षणीयत्वेति । तथा च तत्रातिव्याप्तिरिति भावः । सर्वेषामपि चेष्टादीनामपि । क्वचित्तदभावादाह-प्रायश इति । तथात्वेन रसव्यञ्जकलेन । तत्त्वापत्तिः काव्यत्वापत्तिः । मतत्रयसाधारणं दोषमाह-अपि चेति । व्यासक्तं व्यासज्यवृत्ति । उचितेति । यदि लावाव्यञ्जकखस्योभयत्राप्यविशेषाच्चमत्कारिबोधजनकज्ञानविषयतावच्छेदकधर्मवत्त्वरूपस्यानुपहसनीयकाव्यलक्षणस्य प्रकाशाद्युक्तलक्ष्यतावच्छेदकस्योभयवृत्तिखाच काव्यं पठितम् , श्रुतं काव्यम् , बुद्धं काव्यमित्युभयविधव्यवहारदर्शनाच काव्यपदप्रवृत्तिनिमित्तं व्यासज्यवृत्ति । अत एव वेदत्वादेरुभयवृत्तिवप्रतिपादकः 'तदधीते' इत्यादिसूत्रस्थो भगवान्पतञ्जलिः संगच्छते । लक्षणयान्यतरस्मिन्नपि तत्त्वादेको न द्वावितिवन्न तदापत्तिः । तेनानुपहसनीयकाव्यलक्षणं प्रकाशोक्तं निर्बाधम् । एवमाखादादौ वैलक्षण्यनिवेशादुक्तलक्षणद्वयमपि निर्बाधमिति नान्यमतमपि दुष्टमित्युच्यते तास्तु तथा । सामान्यलक्षणं खदोषादिपदाघटितमेव तेषामपि मते । एवं च न कोऽपि दोष इति बोध्यम् । तदाह-लक्षण इति । काव्यसामान्यलक्षण इत्यर्थः । आदिना संख्यादिपरिग्रहः । यथासंख्यमन्वयः। आदिना पतिप्राप्त्यादिपरिग्रहः । इदं च मध्यमणिन्यायेनोभयान्वयि । अव्याप्त्यापत्तेरिति । गुणालंकारयोरभावादिति भावः । तथा अकाव्यमितीति । ननु काव्यजीवितं चमत्कारिलं तत्रास्तीयत आह-काव्येति ।