________________
१८०
काव्यमाला।
प्यदृष्टाया आननं त्वत्सदृशमिति प्रतीयमाना उपमा मूढपदेन ध्वन्यमानायां चन्द्रविषयायां वक्तृगतायामसूयायामलंकारः । एतेनाप्पयदीक्षितैरुपमालक्षणे दत्तमव्यङ्ग्यत्वविशेषणमयुक्तमेव । नहि व्यङ्ग्यत्वालंकारत्वयोरस्ति कश्चिद्विरोधः । प्राधान्येन व्यङ्ग्यतायां तु प्रधानत्वालंकारत्वयोर्विरोधादलंकारलक्षणं तत्र मातिप्रसासीदित्युपस्कारकत्वेन पुनर्विशेषणीयम् , न त्वव्यङ्ग्यत्वेन । प्रागुक्तायामसूयालंकारोपमायामव्याप्त्यापत्तेः । विशिष्टोपमादिस्थले विशेषणाद्युपमानां वाच्यसिद्ध्यङ्गतया गुणीभूतव्यझ्यत्वम् , सिद्धार्थस्योपस्करणाभावात्तु नालंकारत्वमिति न काप्यसंगतिः । यच्चापि "सेयमुपमा संक्षेपतस्त्रिविधा—क्वचित्ववैचित्र्यमात्रविश्रान्ता । यथा 'स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । कचिदुक्तार्थोपपादनपरा । यथा 'अनन्तरत्नप्रभवस्य' इत्यादौ" इति तैरेव द्रविडशिरोमणिभिरभ्यधीयत । तदप्यहृयमेव । 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इति वाच्यवस्तूपस्कारिकायाः शरदिन्दूपमाया अक्रोडीकरणात् । अलंकारभूतोपमासु खवैचित्र्यमात्र विश्रान्ताया उपमायाः संग्रहे को नाम ध्वन्यमानायास्तस्या निरासायाव्यङ्ग्यत्वविशेषणदानदुराग्रहः । अहो महदेवेदमन्याय्यम्-~यदलक्षणीयायाः संग्रहः, लक्षणीयायाश्चासंग्रह इति । प्राचीनानां तूपमासामान्य लक्षयतां ध्वन्यमानाया इवास्या अपि संग्रहो नानुचितः । न तु खस्य यत्नेन ध्वन्यमानोपमां निरस्य कण्ठरवेणालंकारभूतोपमालक्षकस्य । यदि च प्रबन्धव्यङ्ग्योपस्कारकत्वेनेयं संगृह्यत इत्युच्यते तदा 'स्ववैचित्र्यमात्र विश्रान्ता' इति खोक्तिविरुद्धा
स्यान्वयः । प्रतीयमाना उपमेति । अत्रोपमानस्योपमेयत्वकल्पनात्मकप्रतीपस्यैव व्यङ्ग्यत्वम् । मूढपदवारस्यात् । चमत्कारातिशयाच्च । किं हृष्यसीत्येतत्स्वारस्याच्चेति केचित् । एतेनेति । एतेनापीत्यर्थः । अपिना प्रागुक्तदूषणसमुच्चयः । तैरेवेति । अप्पयदीक्षितैरेवेत्यर्थः । स्वस्येति । तवेत्यर्थः । नानुचित इत्यस्यानुषङ्गः । इयं खवैचित्र्यमात्रविश्रान्ता। विरुद्धा स्यादिति । वस्तुतस्तु उपमासामान्यलक्षणस्यापि । प्रकृतले. वोपमासामान्यस्यैवायं विभागः । उपमानोपमेयतावच्छेदकयोéदाचास्त्येवोपमितिनिष्पत्तिः । अत एव सेयमुपमेत्येवोक्तम् , न खलंकार इति । 'नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव' इत्यत्र तु उक्तार्थोपपादनपरैव मुखकर्तृकनयनकर्मकशिशिरीकरणस्य कव्युक्तस्येन्दूपमयैवोपपत्तेः । उक्तार्थोपपादनेत्यस्य चोक्तार्थस्योपपादनमुक्तार्थे