________________
रसगङ्गाधरः ।
परिष्कुर्वन्त्वर्थान्सहृदयधुरीणाः कतिपये
तथापि क्लेशो मे कथमपि गतार्थो न भविता । तिमीन्द्राः संक्षोभं विदधतु पयोधेः पुनरिमे किमेतेनायासो भवति विफलो मन्दरगिरेः ॥ निर्माय नूतनमुदाहरणानुरूपं
काव्यं मयात्र निहितं न परस्य किंचित् । किं सेव्यते सुमनसां मनसापि गन्धः कस्तूरिकाजननशक्तिभृता मृगेण ॥ मननतरितीर्णविद्यार्णवो जगन्नाथपण्डितनरेन्द्रः । रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम् ॥
धारणधर्ममाह — अन्तरिति । ग्रन्थपक्षे साहित्यविषयमज्ञानम् । मणिपक्षे तु स्पष्टमेव । अलंकारान्भूषणानि तच्छास्त्राणि वा । सर्वानपि न तु कांश्चित् । गलितः स्वयमेव च्युतो नष्टो गर्यो येषां तान्रचयतु । करोत्वित्यर्थः ॥
ननु तादृशार्षग्रन्थेनैव निर्वाहे किमित्यपूर्वोऽयं प्रन्थोऽत आह- परीति । केचन काव्यवासनावासितान्तःकरणश्रेष्ठा अर्थानार्षानलंकारादीन्परिष्कुर्वन्तु, तथापि तैस्तथा कृतेsपि मे क्लेशो रसगङ्गाधररचनरूपः कथमपि खल्पतोऽपि गतार्थश्चरितार्थो न भविता । भविष्यतीति वाच्ये भवितेत्यनेनेदं सूचितम् - स्वग्रन्थकरण काले खतुल्यपण्डि - तसत्त्वेन तेषां गतार्थत्वेऽप्यग्रिमाणामल्पबुद्धीनां न गतार्थत्वम् । अत एव केचन सहदयधुरीणा इत्युक्तमिति । उक्तमर्थमर्थान्तरोपन्यासेन द्रढयति – तिमीन्द्रा मत्स्यविशेषश्रेष्ठाः पुनर्भूयः सम्यङ् न तु यथाकथंचित्क्षोभमालोडनं कुर्वन्तु । एतेन तत्कर्तृकेन तेन मन्दराचलप्रयासो विफलो निष्फलः किं भवति । अपि तु नेति । तिमीन्द्राणां तत्रत्यरत्नालाभेsपि देवानां तल्लाभात्तत्कारणेन साफल्यमिति भावः ॥
इतरग्रन्थतो विशेषान्तरमाह — निर्मायेति । उदेति । तत्तदलंकारादिलक्ष्य त्वयोग्यं काव्यं भामिनीविलासाख्यम् । अत्र रसगङ्गाधरग्रन्थे । लेशतोऽपि परकीयखाभावायाह—न परस्येति । निहितमित्यस्यानुषङ्गः । पूर्ववदाह — किमिति । सुमनसां पुष्पाणाम् । गन्धः आमोदः । कस्तूरिकावतेति वाच्ये जननशक्तीत्यनेन सूचितम् कदापि परकीयग्रहणं न तज्जननशक्तिसत्त्वेन यावदपेक्षितोत्पादन संभवादिति ॥
प्रतिजानीते - मननेति । मननरूपनौकापारंगत विद्यारूपोदधिर्जगन्नाथाख्यपण्डितश्रेष्ठः, पण्डितो नरेन्द्रः पृथ्वीशो येन वा । नरेन्द्रस्य पण्डित इति वा । पण्डितश्चासौ नरेन्द्रश्च तत्तुल्यत्वादिति वा । वस्तुतस्तु जगन्नाथपण्डितराज इति पृथ्वीपतिदत्तनामामिलापोऽयम् । कुतुकेनेत्यनेन स्वस्य ग्रन्थकरणे क्लेशाभावः सूचितः । मीमांसा विचारः ॥