________________
रसगङ्गाधरः।
१५७
तत्रापि विपुलालंकारान्तर्वर्तिन्युपमा तावद्विचार्यतेसादृश्यं सुन्दरं वाक्यार्थोपस्कारकमुपमालंकृतिः॥
सौन्दर्यं च चमत्कृत्याधायकत्वम् । चमत्कृतिरानन्दविशेषः सहृदयहृदयप्रमाणकः । अनन्वये च 'गगनं गगनाकारम्' इत्यादौ सादृश्यस्य द्वितीयसब्रह्मचारिनिवर्तनमात्रार्थमुपात्तत्वेन खयमप्रतिष्ठानादचमत्कारितैव । अत एव तस्यान्वयाभावादनन्वयं तमाहुः । व्यतिरेके 'तवाननस्य तुलनां दधातु जलजं कथम्' इत्यादौ चमत्कारिणो निषेधस्य निरूपणाय प्रतियोगिनः सादृश्यस्य निरूपणचमत्कारकमेव । एवमभेदप्रधानेष्वपि रूपकापडुतिपरिणामभ्रान्तिमदुल्लेखादिषु, भेदप्रधानेषु दृष्टान्तप्रतिवस्तूपमादीपकतुल्ययोगितादिषु चमत्कारिषु तत्तन्निष्पादकतयावस्थितस्यापि सादृश्यस्य चमत्कारिताविरहेण नास्त्युपमालंकृतित्वम् । मुखमिव चन्द्र इति प्रतीपे, चन्द्र इव मुखं मुख इव चन्द्र इत्युपमेयोपमायां च सादृश्यस्य चमत्कारित्वान्नातिप्रसङ्गः शङ्कनीयः । तयोः संग्राह्यत्वात् । ननु
तेत्यादि । तत्रापि तेष्वपि । विपुलेति । बहित्यर्थः । वाक्यार्थोपस्कारकमित्यलंकारस्य सुन्दरमित्यस्य व्यावर्त्यमाह-अनन्वये चेति । सामान्यलक्षणप्राप्तम् । सब्रह्मचारीति । सदृशेत्यर्थः । स्वयमिति । खस्यापर्यवसानादित्यर्थः । अत एव खार्थबोधने तात्पर्याभावादेव । तस्य सादृश्यस्य । द्वितीयं तदाह-व्यतिरेक इति । अन्यदपि तदाह-एवमिति । अनन्वयव्यतिरेकयोरिवेत्यर्थः । तत्तनिष्पादकेति । अमेदापहवादिनिष्पादकेत्यर्थः । तयोस्तादृशप्रतीपोपमेयोपमानयोः । संग्राह्यत्वादिति । चित्रमीमांसोक्तोपमालक्षणदूषणावसरे इति भावः । नव्यास्तु “यत्र चन्द्राद्युपमानप्रतियोगिकवसादृश्यानुयोगिकत्वबुद्धिकृतश्चमत्कारस्तत्रोपमालंकारवम् । अनन्वये तु न खसादृश्यबुद्धिकृतः सः, किं तु निरुपमत्वबुद्धिकृत इति नोपमात्वम् । उपमेयोपमायामपि न परस्परसादृश्यबुद्धिकृतः सः, किं बनयोरेव साम्यं न तृतीय एतत्सदृश इति बुद्धिकृत इति तस्यामपि न तत्त्वम् । मुखमिव चन्द्र इति प्रतीपेऽपि मुखादौ सादृश्य. प्रतियोगिकत्व बुद्धिकृत एव सः, न तदनुयोगिकलबुद्धिकृत इति तत्रापि न तत्त्वम् । 'अहमेव गुरुः-' इति प्रतीपेऽपि उपमानतिरस्कृतत्वकृत एव सः, न तु सादृश्यबुद्धिकृत इति न तत्रापि तत्त्वम् । अलंकारभेदे च चमत्कारनिदानभेद एव निदानम् । रूपकोत्प्रेक्षादौ तथा क्लृप्तत्वात् , सहृदयानुभवसाक्षिकलाच्च । एतेन सादृश्यस्याप्रतिष्ठाने यदि सादृश्याप्रतीतिस्त_नुभवविरोधः । यदि मेदगर्भे तदप्रतीतिस्तदा भेदांशनिवेशेन तद्विवरणे किं फलम् । उपमेयोपमावत्तस्याप्यवस्तूपमाखमित्यपास्तम्" इत्याहुः । उपमा
१४ रस०