________________
काव्यमाला *
पण्डितराजश्रीजगन्नाथविरचितो
रसगङ्गाधरः ।
नागेशभट्टकृतया गुरुमर्म प्रकाशाख्यव्याख्यया समेतः ।
प्रथममाननम् ।
स्मृतापि तरुणातपं करुणया हरन्ती नृणामभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् ।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु कापि कादम्बिनी ॥
नवा गङ्गाधरं मर्मप्रकाशं तनुते गुरुम् । रसगङ्गाधरमणेर तिगूढार्थ संविदे ॥ याचकानां कल्पतरोररिकक्षहुताशनात् । नागेशः शृङ्गवेरेशरामतो लब्धजीविकः ॥
प्रारिप्सितप्रतिबन्धकदुरितशमनाय शृङ्गारालम्बनादिविभावतया तद्देवतालेन च समुचितखेष्टदेवतावस्तुनिर्देशरूपं मङ्गलमाचरशिष्यशिक्षायै व्याख्यातृश्रोतॄणामनुषङ्गतो मङ्गलाय च निबध्नाति—स्मृतापीति । कादम्बिनी मेघपङ्कित्वेनाध्यवसिता कृष्णमूर्तिः। विलक्षणश्यामत्वात्सकलमेघकार्यकरत्वाच्च । अत एव मेघत्वेनाध्यासः । कापीत्यनेनात्र तद्धर्मसत्त्वेऽपि ततोऽधिककार्यकारित्वेन प्रसिद्ध कादम्बिनीतो व्यतिरेकस्तत्र बोध्यते । मतिचुम्बिनी मतिविषयः । भवत्विति प्रार्थने लोट् । व्यतिरेकपोषकं विशेषणत्रयम् । प्रसिद्धा सा तु दृष्टा वर्षणद्वारा स्पृष्टा वा स्वाभाव्याद्वृषस्थभान्वातपान्यतापं केषांचिन्न तु सर्वेषां भूतभविष्यद्वर्तमानभेदेन हृतवती । इयं तु स्मृतापि । दृष्टादिसमुच्चायकोऽपिः । तरुणातपम् । तमपि करुणया न तु यथाकथंचित् । नृणां सर्वेषां न तु केषांचित् । हरन्ती न तु जहार हरिष्यति वा । किं च सा भङ्गशीलतनुकान्तिविद्युता वलयिता वेष्टिता । इयं तु चिरकालस्थायिशरीरकान्तीनां विद्युतां तत्त्वेनाध्यवसितानां गोपाङ्गनानां शतैर्न त्वेकद्वित्र्यादिभिर्वलयिता वेष्टिता । यद्वा 'धान्येन धनवान्' इतिवत्तृतीया । तदभिन्नसंजातवलया । कलिन्दाख्यमहीधरोत्पन्नयमुनातीरे सुरद्रुमा नीपाः । तेषां तत्त्वं तु हरिप्रिय