________________
रसगङ्गाधरः।
'अङ्कितान्यक्षसंघातैः सरोगाणि सदैव हि ।
शरीरिणां शरीराणि कमलानि न संशयः ॥' इत्यादौ श्लेषभित्तिकाभेदाध्यवसितधर्म विना धर्मान्तरस्य सर्वथैवास्फूतेश्च । नान्त्यः । सादृश्यस्य शब्दोपात्तत्वेनोपमात्वापत्तेः । न च साहश्यस्य वाच्यतायामेवोपमाव्यपदेशः । 'नलिनप्रतिपक्षमाननम्' इत्यादौ तदभावापत्तेः । किं च 'विद्वन्मानसहंस-' इत्यादौ श्लिष्टपरम्परितरूपके श्लेषनिष्पत्तौ श्लेषभित्तिकाभेदाध्यवसानेन मानसवासित्वरूपे भूपहंसयोः सादृश्ये सिद्धे सदृशलक्षणामूलस्य भूपे हंसरूपकस्य सिद्धिः । तस्यां च सत्यां सरोमनोरूपार्थद्वयाभिधानलक्षणस्य श्लेषस्य निष्पत्तिरिति परस्पराश्रयः । नहि रूपकास्फूर्ती सरोरूपेऽर्थे मानसशब्दस्य तात्पर्य वेदयितुं किंचित्प्रमाणमवतरति । स्फुरिते तु रूपके तद्धटकसादृश्यान्यथानुपपत्तिरूपेण प्रमाणेनार्थद्वयाभेदबोधफलकस्य तदुभयप्रतिपादनात्मनः श्लेषस्य निष्पत्तिः । अतो नामार्थयोरभेदान्वयसरणिरेव रूपकस्थले रमणीया । सदृशलक्षणायाः फलं रूपके ताद्रूप्यप्रत्यय इत्यपि न हृदयंगमम् । तत्सदृश इति शब्दात्सादृश्यप्रत्यये सत्यपि ताद्रप्यप्रत्ययापत्तेः" इत्याहुः।
मेति । उपात्तधर्मान्याह्लादकलादिरित्यर्थः । तथानुभवे विसंवादादाह-अङ्कितानीति। अक्षाणीन्द्रियाणि, अक्षाः पद्माक्षाश्च तत्समूहैाप्तानि । रोगसहितानि, सरोगामीनीत्यर्थः । श्लेषेति । शब्दश्लेषनिमित्तको यो विशेषणार्थयोरभेदाध्यवसायस्तद्विषयीभूतो यो धर्मस्तद्याप्तत्वसरोगस्वरूपस्तमित्यर्थः । एवमग्रेऽपि । एवं चात्र पौनरुक्त्यं दृढमिति भावः । शब्दोपात्तेति । लक्षणयेति भावः । तथा च रूपकोच्छेदापत्तिरिति भावः । वाच्यतायामेवेति । शक्येति भावः । तदभावेति । प्रतिपक्षशब्दस्य न सादृश्य शक्तिः किं तु लक्षणेति भावः । इष्टापत्तावाह-किं चेति । विद्व. दिति । 'विद्वन्मानसहंस वैरिकमलासंकोचशीतयुते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भारभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥' इत्यादावित्यर्थः । अत्र मानसमेव मानसमित्यादिश्लेषः । तस्यां रूपकसिद्धौ । तद्धटकेति । लक्ष्यतावच्छेदकेत्यर्थः । अर्थद्वयेति । सरोमनोरूपेत्यादिः । प्राचोक्तमन्यत्खण्डयति-सदृशेति । नास्ति लक्षणेतीति । मास्तु लक्षणा।