________________
रसगङ्गाधरः।
१३५
'न मनागपि राहुरोषशङ्का न कलङ्कानुगमो न पाण्डुभावः ।
उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥' अत्र राहुरोषशङ्काभावादिभिर्निरपेक्षैर्वस्तुभिर्व्यतिरेकालंकारो व्यज्यते ।
'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः __पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते
युगान्तदहनोपमा नयनकोणशोणद्युतिः॥' । अत्र युगान्तदहनोपमया यदैव तव कोपोदयस्तदैव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तु व्यज्यमानं राजविषयकरतिभावेऽङ्गमपि वाच्यापेक्षया सुन्दरत्वावनिव्यपदेशहेतुः । न च भस्सीकरणपटुत्वरूपस्य साधारणधर्मस्योपमानिष्पादकत्वायङ्ग्यस्य वाच्यसिध्यङ्गत्वं शङ्क्यम् । उपात्तशोणत्वरूपसाधारणधर्मेणापि तन्निष्पत्तेः संभवात् । उपमेयीभूतशोणद्युतिगतस्य भसीकरणपटुत्वरूपसाधारणधर्मस्योपमानिष्पादकत्वेऽप्युपमेयव्यङ्ग्यकोपगतभस्मीकरणपटुत्वस्यातथात्वाच्च ।
यथा वा'निर्भिद्य क्ष्मारुहाणामतिघनमुदरं येषु गोत्रां गतेषु
द्रापिष्ठवर्णदण्डभ्रमभृतमनसो हन्त धित्सन्ति पादान् । यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेऽशवः पान्तु भानोः ॥'
वर्धते । नदन्तीति । खतः संभव्यलंकारेण वस्तुनो यथेत्यादिः । मदशब्दे अर्शआद्यच् । बिरुदावली स्तुतिपरम्पराम् । अहितमन्दिरे शत्रुगृहे । तदवधि तावत्पर्यन्तम् । एवमग्रेऽपि । उपमयेति । वाच्ययेति शेषः । व्यङ्ग्यस्येति । तच्छरीरनिविष्टवादिति भावः । तन्निष्पत्तरुपमानिष्पत्तेः । विनिगमनाविरहेऽप्याह-उपमेयीभूतेति । उपमाया वाच्यतेन तदवस्थायां यदुपमेयं तद्गतधर्मस्यैव तन्निष्पादकलम् । न तूपमेयभू. तोपमाव्यङ्ग्यरूपकोपगतस्य तद्धर्मस्य । तदा तस्यानुपस्थितेः। तथा च यस्य तन्निष्पादकवं न तस्य व्यङ्ग्यत्वम् , यस्य तत्त्वं न तस्य तत्त्वम् । सोऽनुपात्त इत्यन्यत् । अस्योदाहरणान्तरमाह-यथा वेति । ते रविकिरणा युष्मान्पान्तु । के । येषु तरूणामतिनिबिडमन्तःप्रदेशं विदार्य भूमिं गतेष्वतिदीर्घसुवर्णदण्डसंबन्धि भ्रमेण भृतं पोषितं मनो येषां