________________
रसगङ्गाधरः।
११९ भावात् । न चासौ लिङ्गान्तर्गत इति मन्तव्यम् । शक्यान्तरे नियमेनावृतेरेव प्रकृते लिङ्गत्वात् । शङ्खचक्रयोस्त्विन्द्रादिनापि कदाचिद्धारणसंभवात्। विप्रयोगो विश्लेषः॥
यथा-'अशङ्खचक्रो हरिः' इत्यत्र तयोरेव विश्लेषस्तथा । अत्र हि विश्लेषनियतपूर्ववर्तिनः संश्लेषस्य प्रागुक्तदलद्वयाक्रान्तत्वमपेक्ष्यते । तेनायुधसामान्यविभागः, पाशाङ्कुशादिविभागो वा न तथा । यद्यप्यत्र गुणतया वर्तमानस्तादृशसंयोग एवाभिधानियमनायालम् , तथापि गुणप्रधानयोः संनिपाते प्रधानानुरोध एवं न्याय्य इत्याशयेन विप्रयोगस्य नियामकत्वमुक्तम् । यद्वा संयोगस्यैव केवलत्वेन, विश्लेषगुणीभूतत्वेन च वैविध्यप्रदर्शनाय तथोक्तम् ।
साहचर्यमेकसिन्कार्ये परस्परापेक्षित्वम् ॥
यथा-रामलक्ष्मणौ' इत्यत्र राम लक्ष्मणसाहचर्य रामशब्दस्य । अथ किमिदं परस्परापेक्षित्वं यत्किचित्कार्ये, सर्वेषु कार्येषु वा । नाद्यः । घटाद्यव्यावर्तनाद्धटसाहचर्यस्यापि रामपदशक्तिनियामकतापत्तेः । न द्वितीयः । लक्ष्मणसाहचर्यस्यापि निवारणापत्तेः । पक्षद्वयेऽपि रामायोध्ये रघुरामावित्यत्रानियमापत्तेश्च । न च नानार्थपदसमभिव्याहृतपदान्तरार्थस्य प्रसिद्धः संबन्धस्तत् । स चैकजन्यत्वदांपत्यजन्यजनकभावखामिभृत्यभावखखामिभावादिरनेकविधः । तेन रामलक्ष्मणौ, सीतारामौ, रामदशरथौ, रामहनू
क्रमेण दलद्वयकृत्यमाह-न त्वायुधेति । असौ संयोगः । लिङ्गवात्तत्त्वेन ग्रहणात् । तथा च विशेषणदले नियमेनेति पूरणीयमिति भावः । तयोरेव शङ्खचक्रयोरेव । तथा अभिधानियामकः । एवमग्रेऽपि । अतिप्रसङ्गवारणायाह-अत्रेति । तेन संश्लेषपूर्वकस्यैव तस्य ग्रहणमिति नातिप्रसङ्गः । प्राग्वत्तत्कृत्यमाह-तेनेति । गुणतया प्रकारतया। तादृशेति । दलद्वयाक्रान्तेत्यर्थः । अलं समर्थः । विश्लेषस्य नियामकलकल्पनजगौरवादाह-यद्वेति । केवलखेन शुद्धसंयोगलेन । रामशब्दस्य राघवेऽभिधानियामकमिति शेषः । निवारणेति । सर्वकार्ये तदभावादिति भावः । पक्षद्वयेऽपीति । कार्यमात्रे तयोस्तदभावात् । अद्येऽसंभवात् , अन्ये तदा रघोरसत्त्वादिति भावः । प्रसिद्ध इति । नानार्थपदार्थे इति शेषः । तत्साहचर्यम् । उक्तसंवन्धानां क्रमेणोदाहरणान्याह-वे.