________________
१०४
काव्यमाला।
उदाहरणम्'पापं हन्त मया हतेन विहितं सीतापि यद्यापिता
सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति । आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां
राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥' अत्र मत्यसूयाविषादस्मृतिवितर्कत्रीडाशङ्कानिर्वेदानां प्रागुक्तखखविभावजन्मनां शबलता । यत्तु काव्यप्रकाशटीकाकारैः 'उत्तरोत्तरेण भावेन पूर्वपूर्वभावोपमर्दः शबलता' इत्यभ्यधीयत, तन्न । 'पश्येत्कश्चिन्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः कासि यासि' इत्यत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानामुपमर्दलेशशून्यत्वेऽपि शबलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकृतैव निरूपणात् । खोत्तरविशेषगुणेन जायमानस्तु नाशो न व्यङ्ग्यः । न वोपमर्दपदवाच्यः । नापि चमत्कारी । तस्मात्
'नारिकेलजलक्षीरसिताकदलमिश्रणे ।
विलक्षणो यथा खादो भावानां संहतौ तथा ॥' अत्रेदं बोध्यम्य एते भावशान्त्युदयसंधिशबलताध्वनय उदाहतास्तेऽपि भावध्वनय एव । विद्यमानतया चळमाणेष्विवोत्पत्त्यवच्छिन्नत्वविनश्यदवस्थत्वसंधीयमानत्वपरस्परसमानाधिकरणत्वैः प्रकारैश्चर्यमाणेषु भावेष्वेव प्राधान्यस्यौचित्यात् , चमत्कृतस्तत्रैव विश्रान्तेः । यद्यप्युत्पत्ति
ज्ञानं महावाक्यार्थबोधस्तद्विषयत्वमित्यर्थः। पापमिति । अत्र पापमित्यनेन मतिः, हन्तेत्यादिनासूया, सीतापीत्यादिना विषादः, सेत्यनेन स्मृतिः, मामित्यादिना वितर्कः, आलोकेयेत्यादिना व्रीडा, किं त इत्यादिना शङ्का, राज्यमित्यादिना निर्वेदः, इति बोध्यम् । पश्येत्कश्चिदिति शङ्का । चल चपल रे इत्य सूया । का खरेति धृतिः । अहं कुमारीति स्मृतिः । हस्तालम्ब वितरेति श्रमः । हहहेति दैन्यम् । व्युत्क्रम इति दैन्यम् । क्कासीति मतिः। यासीत्यौत्सुक्यम् । औत्सुक्यानामिति । मध्ये पूर्वपूर्वस्योत्तरोत्तरेणेति शेषः । मूलकृतैव प्रकाशकृतैव । तत्त्वेऽप्याह-न वेति । तत्त्वेऽप्याह-नापीति । अत्र च सहृदयहृदयमेव प्रमाणमिति भावः । उपसंहरति-तस्मादिति । चूर्णिकेयम् । संहतो मिश्रणे । भावशान्त्युदेति । भावसंबन्धिशान्यादीनां ध्वनय इत्यर्थः । स्थितौ