________________
अस्ति ब्रह्मारण्ये कर्परतिलको नाम हस्ती । तमवलोक्य सर्वे शुगालाश्चिन्तयन्ति स्म, यद्ययं केनाप्युपायेन म्रियते तदास्माकमेतद्देहेन मासचतुष्टयस्य भोजनं भविष्यति। तत्रैकेन वृद्धशृगालेन प्रतिज्ञातं, मया बुद्धिप्रभावादस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्यावदद्देव दृष्टिप्रसादं कुरु । हस्ती बूते, कस्त्वं, कुतः समायातः । सोऽवदज्जम्बूकोऽहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं प्रस्थापितो, यद्विना राज्ञाऽवस्थातुं न युक्तं तदत्राटवीराज्येऽभिषेक्तुं भवान्सर्वस्वामिगुणोपेतो निरूपितस्तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यतां देवेन । इत्युक्त्वोत्थाय चलितः । ततोऽसौ राज्यलोभाकृष्टः कर्पूरतिलकः शृगालवर्त्मना धावन् महापङ्के निमग्नः । ततस्तेन हस्तिनोक्तं, सखे शृगाल, किमधुना विधेयं, पङ्के निपतितोऽहं म्रिये, परावृत्य पश्य । शृगालेन विहस्योक्तं, देव मम पुच्छकावलम्बनं कृत्वोत्तिष्ठ। यन्मद्वचसि त्वया प्रत्ययः कृतस्तदनुभूयतामशरणं दुःखम् ।
क्रोधो मूलमनर्थानाम् ।-ओघ अनर्थोनी
छे.
र संसर्गजा दोषगुणा भवन्ति । - होष साने गुर संगतिथी थायछ.
विनाशकाले विपरीतबुद्धिः । - विनाश समये बुद्धि ३रीय छे.
विभूषणं मौनमपण्डितानाम् । - मौन भूमामान भूषा छे.
*
विद्याया न परमं चक्षुः । - विधाथी मोटी मां नथी.
કે સુબોધ સંસ્કૃતમાર્ગોપદેશિકા 2 ૧૫૧
દલ સુભાષિત સંદોહા