________________
तुरीया वधूः यवानां वृद्धि कृतवती । अतः सा वर्धिका अस्ति, सकलगृहोत्तरदायित्वं मुख्यतया
तस्यै प्रदीयते।
तृतीया यवान् रक्षितवती।
अतः सा रक्षिका अस्ति। गृहकोशरक्षाकार्यं तस्यै अर्घ्यते।
द्वितीया यवान् भक्षितवती। अतः भक्षणशीला सा भक्षिका अस्ति । तस्यै महानसव्यवस्थादिकं कार्य ददाम्यहम्।
प्रथमा यवान् उज्झितवती । अतः उज्झनशीला सा उज्झिका अस्ति । गृहस्वच्छताकरणं तस्यै दीयते।
स्वानुरुपकार्यं संप्राप्य सर्वाः ताः सम्यक् कार्याणि कृतवत्यः । सकलश्च परिवारः सुखी जातः । अतः सर्वाणि कार्याणि विमृश्य करणीयानि इत्युपदेशः ।
स२१ संस्कृतम् - ४
०२५६०
ચિત્રવાર્તા છે