________________
Q. 20 નિમ્નોક્ત વાર્તા વાંચી સંસ્કૃતમાં આપેલ પ્રશ્નોના સંસ્કૃતમાં જવાબ सपो.
__ [Marks - 9] andi :
राजगृहनगरेऽतिमुक्तको बालो राजपुत्र आसीत् । एकदा क्रीडता तेन गौतममुनिर्दृष्टः । स धावन् तन्निकषा गत्वा प्रणम्य, 'हे मुने ! मद्गृहे भिक्षायै भवताऽऽगन्तव्यमेव, शीघ्रमागच्छतु' इत्युदित्वा मुनिहस्तमाकृष्य गृहमनयत् । तस्मै च गृहे मोदका अतीवोल्लासेन दत्तास्तेन बालेन । तदनन्तरं गृहाबहिर्बालेनोदितम् - "हे मुने ! इदं भवत्पात्रकं मयाऽपि लब्धव्यम् ।" मुनिना कथितम् - "तदर्थं त्वया प्रव्रजितव्यम् ।" तेनोदितम् - "अस्त्वेवम् ।" मुनिना कथितम् - "पित्रोरनुज्ञां याचित्वा आज्ञां लब्ध्वा उपजगद्गुरु त्वयाऽऽगन्तव्यम् ।" ___स बालोऽपि तथैव कृत्वा शीघ्रं प्राव्रजत् । एकदा बहिरन्यमुनिभिस्सह गतो मुनिः वर्षायां क्रीडतो बालानपश्यत् । ततश्च तेनाऽपि बालमुनिना तैर्बालैस्सम स्वीयेन पात्रकेण क्रीडितुमारब्धम् । अन्यमुनिभिरागत्य बालमुनय उदितम् - "साधुना नैतदाचरणीयम्, उदकं जीवोऽस्ति, तत्र क्रीडनेऽसङ्ख्येया उदकजीवा म्रियन्ते ।" ___स मुनिरपि अञ्जसा सपश्चात्तापं ततो निवृत्तः, मुनिना प्रभुं निकषा गत्वा स्वीयस्य पापस्य हृदयेनालोचना कृता । भगवता प्रायश्चित्त ईर्यापथिकी दत्ता । ईर्यापथिकीकरणकाल एव बालमुनिना केवलज्ञानं लब्धम् । धन्योऽतिमुक्तको मुनिश्रेष्ठः । नमस्तस्मै ।
प्रश्न :1. बालस्य नाम किमासीत् ? 2. को महामुनिभिक्षाया आगतवान् ? 3. तं महामुनिं दृष्टवा बालेन किं कृतम् ? 4. बालेन किं दत्तं महामुनये ? 5. बाल-महामुन्योः संवादं लिखतु ।
6. बालेन दीक्षाया अनन्तरम् एकदा किं कृतम् ? ** स२८ संस्कृतम् - ४ • १०८ .
पशक्षा-५