________________
(७८)
श्रीलघुहेमप्रभाव्याकरणम्.
शुचगैच पूतिभावे) २ ॥ अशोचीत्। अशुचत् । अशोचिष्ट । रन्जींच् रागे।३॥ शपींच् आक्रोशे। ४ ॥ मृषीच तितिक्षायाम् ॥५॥ अमर्षीत् अमर्षिष्ट । णहीच बन्धने । ६ ॥ प्रणवति । प्रणयते । अनात्सीत् । अनद्ध । ननाह । नेहे ॥ इत्युभयपदिनः।। दिवादिादिवदाकृतिगणः, तेन क्षीयते मृग्यति इत्यादि । ___इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामवृद्धिविजयचरणकमलामिलिन्दायमानान्तेवासिसंविग्नशास्त्रीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसरिविरचितायो लघुहेमप्रभायामुत्तरार्द्ध दिवादयः॥
.. ॥ अथ स्वादिः॥ पुंगट् अभिषवे। १॥
स्वादेः श्नुः ॥३। ४ । ७५ ॥ .. कर्तरि विहित शिति ॥ उश्नोरिति गुणे । सुनोति । सुनुते ॥
वन्यविति वा॥४।२। ८७ ॥ असंयोगात् परोय उस्तस्य प्रत्ययसम्बन्धिनो लुक् ॥ मुन्वः । मुनुवः। सुन्मः । सुनुमः। सुनु। सुनुतात् । असावीत् । अभिषणोति । अभ्यषुणोत् । अभिसुषाव ।
सुगः स्यसनि ॥ २।३।६२॥ सः पन ॥ अभिसोष्यति । किंग्ट् बन्धने । २॥ शिंग्टू निशातने । ३ ॥ इमिंग्ट प्रक्षेपणे । ४ ॥