________________
आख्यातप्रकरणम्..
(६७)
~
~
~
~
~
~
~
~
स्वरादेहितीयः ॥ ४ । १।४॥ युक्तिभाज एकस्वरो द्विः॥ प्राक् तु स्वरे स्वरविधेरित्येव। आटिटत्॥
अयि रः ॥ ४ । १।६॥ स्वरादेर्धातोर्द्वितीयस्यांशस्यैकस्वरस्य संयोगादिनि स्यात् ॥ णत्वस्यासिद्धत्वान्नुशब्दस्य द्वित्वम् । अणुनाव । ऊणुनुवतुः । ऊर्जुनुविथ । ऊर्जुनविथ । अणुयात् । अणुविता। ऊर्णविता । ऊर्गुते । औणुविष्ट । और्णविष्ट । ष्टुंग्क् स्तुतौ । २ ॥ स्तौति ।
उपसर्गात् सुम्सुवसोस्तुस्तुभोऽटथप्यद्वित्वे ॥ २।३।३९॥
नाम्यादेः सः स्यात् ॥ अभिष्टौति । स्तवीति । स्तुते । स्तुवाते । अस्तीत् । अस्तवीत् । पर्यष्टोत् । पर्यस्तोत् । अस्तुत ।
धूगसुस्तोः परस्मै ॥४।४। ८५॥ सिच आदिरिट् ॥ सु इति सुमात्रस्य ग्रहणम् । अस्तावीत् । अस्तोष्ट । तुष्टाव । तुष्टोथ । तुष्टुवे । बॅगक व्यक्तायां वाचि ॥३॥
ब्रूगः पश्चानां पश्चाहश्च ॥४।२। ११८ ॥ तिवादीनां यथासङ्खयं णवादयो वा स्युस्तयोगे ब्रूगः ॥ आह । आहतुः। आहुः। नहाहोर्द्धताविति हस्य ते। आत्थ। आहथुः। पक्षे॥
ब्रूतः परादिः ॥ ४ । ३ । ६३ ॥ व्यञ्जनादौ विति इत् ॥ ब्रवीति । ब्रूतः। ब्रुवन्ति । अस्तिब्रुवोरिति वचि । अवोचत् । अवोचत । उवाच । ऊचे। द्विषींक