________________
आख्यातप्रकरणम्.
( ५९ )
रोदिता । विष्वक शये । २७ ॥ स्वपिति । स्वप्यात् । अस्वासीत् । भूस्वपोरित्युत्वे । सुष्वाप ॥ स्वपेर्यङ्के च ।। ४ । १ । ८० ॥
किति सस्वरान्तःस्था वृत् । सुषुपतुः । सुष्वपिथ । सुष्वप्थ ॥ अवः स्वपः ॥ २ । ३ । ५७ ॥
निर्दुः सुविपूर्वस्य सः षः । सुषुषुपतुः । अन श्वसक् प्राणने । २८ ॥ द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥ २ । ३ । ८१ ॥
अदुरुपसर्गान्तःस्थाद्रादेः परस्य नो णः ॥ प्राणिति । हे प्राण् । परेस्तु पर्यणिति । पर्यनिति । श्वसिति । अश्वासीत् । अश्वसीत् । जक्षक भक्षहसनयोः ॥ २९ ॥ जक्षिति । जक्षितः । जक्षति । अजक्षत् । अजक्षीत् । अजक्षिताम् ॥
इयुक्तजक्षपञ्चतः ॥ ४ । २ । ९३ ॥
शितोऽवितोऽनः पुस् । अजक्षुः । अजक्षीत् । जजक्ष । दरिद्राक् दुर्गतौ । ३० ॥ दरिद्राति ।
इर्दरिद्रः ॥ ४ । २ । ९८॥
व्यञ्जनादौ शित्यवित्यातः ॥ दरिद्रितः ॥
श्नश्वातः ॥ ४ । २ । ९६ ॥
द्वयुक्तजक्षपञ्चतः शित्यविति लुक् ।। दरिद्रति । दरिद्रियात् । अदरिद्रुः।। दरिद्रतन्यां वा ॥ ४ । ३ । ७६ ॥
लुक् || अदरिद्रीत् | अदरिद्रिष्टाम् । पक्षे, अदरिद्रासीत् ।