________________
कृदन्तप्रकरणम्.
( १९५)
wwwuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuuum
परेर्देविमुहश्च ॥ ५। २ । ६५ ।। शीलादिसदाबहेपिनण् ॥ परिदेवी । परिमोही। परिदाही ॥
क्षिपरटः॥ ५। २। ६६ ॥ परिपूर्वाच्छीलादिसदर्थाद् घिनण ॥ परिक्षेपी । परिराटी ॥
वादेश्च णकः ॥ ५।२। ६७॥
परिपूर्वाच्छीलादौ क्षिपरटः ॥ परिवादकः । परिक्षेपकः। परिराटकः ॥
निन्दहिंसक्लिशखादविनाशिव्याभाषासूयानेकस्वरात् ॥ ५। २ । ६८॥
शीलादिसदाण्णकः॥ निन्दकः। हिंसकः। क्लेशकः। खादकः। विनाशकः । व्याभाषकः । असूयकः । चकासकः ॥
उपसर्गादेवृदेविक्रुशः ॥ ५। २ । ६९ ॥ शीलादिसदण्णकः ॥ आदेवकः । परिदेवकः । आक्रोशकः॥ वृद्भिक्षिलुण्टिजल्पिकुटादाकः ॥ ५। २ । ७०॥ शीलादिसदर्थात् ॥ वराकी। भिक्षाकः।लुण्टाकः।जल्पाकः । कुद्दाकः॥
प्रात्सूजोरिन् ।। ५। २। ७१॥ . शीलादिसदर्थात् ॥ प्रसवी । प्रजवी ॥ जीण्दृक्षिविश्रिपरिभूवमाभ्यमाव्यथः॥५॥२॥७२॥
शीलादिसदादिन् ॥ जयी । अत्ययी। आदरी । क्षयी। विश्रयो । परिभवी । वमी। अभ्यमी । अव्यथी॥
मृघस्यदो मरक् ॥ ५। २ । ७३ ॥ शीलादिसदर्थात् ॥ समरः । घस्मरः । अमरः ॥