________________
( ८ )
श्री लघुहेमप्रभाव्याकरणम्.
vvvvvvvvvvvvvvv
vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvww
~
~
~
~
vvvvve
~
~
~
~
भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥ सप्तम्यर्थे क्रियातिपत्ता क्रियातिपत्तिः॥५।४।९॥
सप्तम्या अर्थो निमित्तं हेतुफलकथनादिका सामग्री । कुतीश्वत् वैगुण्यात् क्रियाया अतिपतनं अनभिनित्तिः क्रियातिपत्तिः, तस्यां सत्यामेष्यदाद्धातोः सप्तम्यर्थे क्रियातिपत्तिः ॥ सुदृष्टिश्चेदभविष्यत् मुभिक्षमभविष्यत् । अभविष्यताम् । अभविष्यन्। अभविष्यः। अभविप्यतम् । अभविष्यत । अभविष्यम्। अभविष्याव । अभविष्याम ॥
माङयद्यतनी ॥ ५। ४ । ३९ ॥ सर्वविभक्त्यपवादः ॥ मा भवान् भूत् ॥
सस्मे शस्तनी च ॥५।४।४०॥ माङि अद्यतनी ॥ मा स्म भवत् भूद्वा॥ अदुरुपसर्गान्तरो गहिनुमीनानेः॥ २।३।७७॥
रादेः परस्य नो ण् स्यात् ॥ णति णोपदेशा धातवः। प्रभवाणि अदुरिति किम् ? दुर्भवानि । णोपदेशास्त्वनृतिनर्दिनशिनन्दिनाटिनक्किनाथूनाधृनधातवः । नाटीति चौरादिकस्य ग्रहणम् ॥ - अकखाद्यषान्ते पाठे वा ॥ २।३। ८०॥
धातौ परे अदुरुपसर्गान्तस्थाद्रादेः परस्य ने! ण स्यात् ॥ स्तम्भेः सौत्रेषु पाठात् पाठविषयत्वम् । प्रणिभवति । प्रनिभवति । पाठ इति किम् ? प्रनिचकार । उपसर्गा अर्थविशेषस्य द्योतकाः । प्रभवति, पराभवति, सम्भवति, अनुभवति इत्यादौ विविधार्थावगतः, तथा चाहउपसर्गेण धात्वर्थों बलादन्यत्र नीयते। बलादन्यः प्रतीयते इति पाठान्तरम् ॥