________________
कृदन्तप्रकरणम्.
(१७९)
-
anwhrvsnny.hivm/Vvvvvvvvvvvv
अग्नेश्चः ॥ ५। १ । १६४ ॥ व्याप्याद् भूते किम् ॥ अग्निचित् ॥
कर्मण्यग्न्यर्थे ॥ ५। १ । १६५॥ कर्मणः पराद् भूतार्थाचेः किम् ।। श्येनचित् ।।
दृशः क्वनिप् ॥ ५। १ । १६६ ॥ व्याप्यात् भूते ॥ बहुदृश्वा । भूते प्रत्यायन्तरबाधनाथ वचनम् ॥
सहराजभ्यां कृगयुधेः ॥ ५। १ । १६७ ॥ .. भूते कनिप् । सहकृत्वा । सहयुध्वा । राजकृत्वा । राजयुध्वा ।
अनोजनेर्डः ॥ ५। १ । १६८॥ कर्मणो भूते ॥ पुमनुजः ॥
सप्तम्याः ॥ ५। १ । १६९ ॥ भूतार्थाजनेर्डः ॥ मन्दुरजः ॥
अजातेः पञ्चम्याः ॥ ५। १ । १७० ॥ भूतार्थाजनेर्डः ॥ बुद्धिजः । अजातेरिति किम् ? । गजाज्जातः ॥
क्वचित् ॥ ५। १ । १७१॥ उक्तादन्यत्रापि यथालक्ष्यं डः ॥ किः। अनुजः । अजः । स्त्रीजः । ब्रह्मज्यः । वराहः । आखः ॥
सुयजो वनिप् ॥ ५। १ । १७२॥ भूतार्थात् ॥ सुत्वानौ । यज्वा ॥
जृषोऽतः ॥ ५।१।१७३ ॥ भूतार्थात् ॥ जरती ॥
क्तक्तवतू ॥ ५। १ । १७४॥ भतार्थाद्धातोः ॥ कृतः । कृतवान् ।