________________
कृदन्तप्रकरणम.
(१६१)
प्रयाप्यमाणः २॥
निर्विण्णः ॥ २ । ३ । ८९ ॥ निर्विदः सत्तालाभविचारणार्थात्परस्य क्तस्य नो णत्वम्। निविण्णः॥ न ख्यापूगभूभाकमगमप्यायवेपो णेश्च ॥२॥३॥९॥
अदुरुपसर्गान्तःस्थाद्रादेः परात् परस्य कृतो नो ण् ॥ प्रख्यानीयम् । प्रख्यापनीयम् । प्रपवनीयम् । प्रपावनीयम् । प्रभवनीयम् । प्रभावनीयम् । प्रभायमानम् । प्रभापना । प्रकामिनौ । प्रकामना । अप्रगमनिः।प्रगमना। प्रप्यानः। प्रप्यायना । प्रवेपनीयम्। प्रवेपना ।।
देशेऽन्तरोऽयनहनः ॥ २।३ । ९१ ॥ नो ण न । अन्तरयनः, अन्तर्हननो वा देशः॥
षात्पदे ॥ २।३। ९२ ॥ परस्य नो ण् न ॥ सर्पिष्पानम् । पद इति किम् ?। पुष्णाति । सपिकेण॥
पदेऽन्तरेऽनायतद्धिते ॥ २।३ । ९३॥
निमित्तकायिणोनों ण न ॥ प्रावनद्धम् । रोषभीममुखेन । माषकुम्भवापेन । अनाङीति किम् ? । प्राणद्धम् । अवद्धित इति किम् ? । आर्द्रगोमयेण ॥
__ य एच्चातः ॥ ५। १ । २८॥ स्वरान्ताद्धातोः ॥ चेयम् । नेयम् । देयम् । धेयम् ॥
शकितकिचतियतिशसिसहियजिभजिपवर्गात् ॥ ५।१। २९॥
यः॥ शक्यम् । तक्यम् । चत्यम् । यत्यम् । शस्यम् । सद्यम् । यज्यम् । भज्यम् । तप्यम् । गम्यम् ॥
आङो यि ॥ ४।४ । १०४ ॥ लभः स्वरात्परः प्रत्यये नोऽन्तः॥ आलम्भ्या गौः। यीति किम् ?।