________________
कृदन्तप्रकरणम्.
nahvannivanAmAvvvnnnnnnvvvvonvvvwwwwwwwvvvvvvvvvvvvvvvvv
गम्ये घ्यणि गो न ॥ नियोज्यः । प्रयोज्यः ॥
भुजो भक्ष्ये ॥४।१।११७॥ ध्याणि गो न ॥ भोज्यं पयः । भक्ष्य इति किम् ?। भोग्या भूः ॥
त्यज्यजप्रवचः॥४।१।११८ ॥ ध्यणि कगौ न ॥ त्याज्यम् । याज्यम् । प्रवाच्यः॥
वचोऽशब्दनानि ॥ ४ । १ । ११९ ॥ घ्यणि को न ॥ वाच्यम् । अशब्दनाम्नीति किम् ? । वाक्यम् ॥
भुजन्युजं पाणिरोगे ॥ ४ । १ । १२०॥ . निपात्यते ॥ भुजः पाणिः । न्युजो रोगविशेषः ॥
वीरुन्न्यग्रोधौ ॥४।१।१२१॥ विपूर्वस्य रुहेः क्विपि न्यपूर्वस्थ चाचि वीरुन्न्यग्रोधौ धान्तौ निपात्येते ॥ वीरुत् । न्यग्रोधः॥ संचाय्यकुण्डपाय्यराजसूयं ऋतौ ॥ ५।१ । २२ ॥ ध्यणन्तं निपात्यते ॥ सञ्चाय्यः । कुण्डपाय्यः । राजसूयः क्रतुः ॥
प्रणाय्यो निष्कामासंमते ॥ ५। १ । २३ ॥ .
पानियो ध्यणायादेशौ निष्कामेऽसम्मते चार्थे ॥ प्रणाय्यः शिष्यश्चौरो वा ॥
धाय्यापाय्यसान्नाय्यनिकाय्यमृङ्मानहविनिवासे ॥ ५। १ । २४ ॥
घ्यणन्तं निपात्यते ॥ धाय्या ऋक् ॥ पाय्यं मानम् । सामाय्य हविः । निकाय्यो निवासः ॥ परिचाय्योपचाय्यानाय्यसमूह्यचित्यमग्नौ॥५॥१॥२५॥
निपात्यते ॥ परिचाय्यः । उपचाय्यः । आनाय्यः । समूहः ।