________________
आख्यातप्रकरणम्.
(१११)
vvvvvvvvvvvvvvvvvvvvv
wwwwwwwwwwww
पाणिणत् । औब्जिजत् । आहिटत् । औन्दिदत् । आर्चिचत् ॥
रभोऽपरोक्षाशवि ॥४।४।१०२॥ स्वरात्परः स्वरादौ प्रत्यये नोन्तः ॥ आरम्भयति । अपरोक्षाशवीति किम् ? आरेभे । आरभते ॥
. लभः॥ ४ । ४ । १०३ ॥ माग्वत् ॥ लम्भयति । लभेः परस्मैपदस्याप्यभिधानाल्लभन्ती स्वीति केचित् । इय॑यति । एर्षिष्यत् । केचित्तु ऐय॑ियत् इत्यपि ॥
णावज्ञाने गमुः॥ ४ । ४ । २४ ॥ इणिकोौँ । गमयति । अधिगमयति । ज्ञाने तु प्रत्याययति ॥
॥ इति ण्यन्तप्रक्रिया ॥
तुमोदिच्छायां सन्नतत्सनः॥३।४ । २१॥
यो धातुरिषेः कर्मेषिणैव च समानकर्तृकः सतुमर्हस्तस्मादिच्छायामर्थे सन् वा स्यात्, न विच्छासन्नन्तात् ॥ पठितुमिच्छति पिपठिषति । अपिपठिषीत् । अटिटिषति । जिघत्सति । तुमर्हादिति किम् ? । यानेनेच्छति । भुक्तिमिच्छति मैत्रस्य । इच्छायामिति किम् ? भोक्तुं याति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति । तदिति किम् ? जुगुप्सिषते । मीमांसिषते ॥
यिः सन्वेयः ॥४।१ । ११ ॥ द्वित्त्वभाजो द्विः ॥ ईयियिषति । इयिषिषति ॥
गहगुहश्च सनः ॥४।४ । ५९ ॥ उवर्णान्ताद्विहितस्यादिरिद् न ॥