________________
त्रिप्रत्ययाः
यवन्तात् स्त्रियां ङीस्तयोगे डायनन्तः ॥ पौतिमाष्यायणी । पौतिमाष्या । आवट्यायनी । आवव्या ॥
कौरव्यमाण्डूकासुरेः ॥ २ । ४ । ७० ॥
स्त्रियां ङीस्तद्योगे डायन् चान्तः ॥ कौरव्यायणी । माण्डूकायनी । आसुरायणी ॥
इञ इतः ॥ २४ ॥ ७१ ॥
ॐ
(७५)
स्त्रियां ङीः ॥ सौतंगमी ॥
नुर्जातेः ॥ २ । ४ । ७२ ॥
इदन्तात् स्त्रियां ङीः ॥ कुन्ती । दाक्षी । नुः किम् ? । तित्तिरिः ॥ उतोऽप्राणिनश्चायुरज्वादिभ्य ऊङ् ॥ २ । ४ । ७३ ॥ नुर्जातिवाचिनः स्त्रियाम् ॥ कुरुः । कर्कन्धूः ॥ बाह्वन्तकद्रुकमण्डलोर्नानि ॥ २ । ४ । ७४ ॥ स्त्रियामूङ् || मद्रबाहूः । कद्रूः । कमण्डलुः । नाम्नि किम् ? | वृत्तबाहुः ||
I
उपमानसहितसंहितसहशफवामलक्ष्मणाद्यूरोः
॥ २ । ४ । ७५ ॥
स्त्रियामूङ् || करभोरूः । एवं सहितोरूरित्यादयः ॥ उपमानाद्यादेरिति किम् । पीनोरुः ॥
नारी सखी पङ्गु श्वभूः ॥ २ । ४ । ७६ ॥ एते निपात्याः ॥
यूनस्तिः ॥ २ । ४ । ७७ ॥
स्त्रियाम् ॥ युवतिः । युवतीत्यत्र तु इतोऽस्यर्थादिति ङीर्भविष्यति ॥