________________
श्रीमत्ययाः
( ७३ )
नखा। चन्द्रमुखी । चन्द्रमुखा । अनाम्नीति किम् ? । शुर्पणखा । पूर्वपदस्थादिति णत्वम् ।
पुच्छात् ॥ २ । ४ । ४१ ॥
सहादिवर्णपूर्वपदात् स्वास्त खियां ङीर्वा ॥ सुपुच्छी । सुपुच्छा ॥ कबरमणिषिषशरादेः ॥ २ । ४ । ४२ ॥
पुच्छात् स्त्रियां नित्यं ङीः ॥ कबरपुच्छी । मणिपुच्छी । विषपुच्छी। शरपुच्छी ॥
पक्षाच्चोपमानादेः ॥ २ । ४ । ४३ ॥
पुच्छात् स्त्रियां ङीः ॥ उलूकपक्षी । उलूकपुच्छी ॥ क्रीतात् करणादेः ॥ २ । ४ । ४४ ॥
अदन्तात् स्त्रियां ङीः ॥ अश्वक्रीती । करणग्रहणं किम् ? | सुक्रीता । केचितु धनेन क्रीतेति आवन्तेनापि समासमिच्छन्ति । धनक्रीता ॥
तादल्पे ॥ २ । ४ । ४५ ॥
नाम्नः करणादेः स्त्रियां ङीः ॥ अभ्रविलिप्ती द्यौः । अल्पे किम् ? | चन्दनानुलिप्ता ॥ स्वाङ्गादेरकृतमितजातप्रतिपन्नाद् बहुव्रीहेः ॥ २|४|४६॥ क्तान्तात् स्त्रियां ङीः ॥ शङ्खभिन्नी । कृतादिवर्जनात् दन्तकतेत्यादि । बहुव्रीहेः किम् ? । हस्तपतिता ॥
अनाच्छादजात्यादेर्नवा ॥ २ । ४ । ४७ ॥
कृतादिवर्जितान्वाद्बहुव्रीहेः खियां ङीः ॥ शारजग्धी । शारजा ! आच्छादनेनावखा । जात्सादेः किस ? ।