________________
( ४८ )
श्रीरुहेमप्रभाव्याकरणम्.
स्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते॥ २।१।३३॥
अन्वादेशे ॥ कस्यचिद्वस्तुनः किञ्चित्क्रियादिकं विधातुं कथितस्य वेनान्येन वा शब्देन पुनरन्यद्विधातुं कथनमन्वादेशः । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत । एतकं साधुमावश्यकमध्यापयाथो एनमेव सूत्राणि । अत्र साकोऽप्यादेशः । एतेन रात्रिरधीताऽथो एनेनाहरप्यभीतम् । एतयोः शीलं शोभनमथो एनयोर्महती कीर्त्तिः । सर्वाणि शास्त्राणि ज्ञातवन्तावेतौ अथो एनयोस्तिष्ठतोर्नान्यः पूजार्हः । अट्टयन्त इति किम् ? । अथो परमैतं पश्य । अन्तग्रहणं किम् ? । एनच्छ्रितकः । द्वितीयाटौसीति किम् ? । एते मेधाविनो विनीता अयो एते शास्त्रस्य पात्रम् । अन्वादेश इत्येव । जिनदत्तमध्यापय एतं च गुरुदत्तम् ॥
गडवबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्वोश्च
प्रत्यये ॥ २ । १ । ७७ ॥
भात्ववयवस्य पदान्ते || भुत् । खुद् । बुधौ । बुधः । भुद्भ्याम् । राजा । राजानौ ॥
नामन्त्रये ॥ २ । १ । ९२ । ॥
नाम्नो नस्य लुक् पदान्ते ।। हे राजन् । राज्ञः । राजभ्याम् । राज्ञि । सजनि । यज्वा ॥
न वमन्तसंयोगात् ॥ २ । १ । १११ ॥ परस्यानोऽकारस्य लुक् ।। यज्वनः । आत्मा । आत्मनः । प्रतिदिवा ॥ भ्वादेनमिनो दीर्घो वर्व्यञ्जने ॥ २ । १ । ६३ ॥
दिसम्बन्धिविशेषणं किम् ? | दिन्नः । ना
प्रतिदीनः || मिनो भ्वादिसम्बन्धिविशेषणं किम् ? । दधिव्रज्या । प्रत्यासत्या तस्यैवेति विशेषणाद् ग्रामणिव्रज्या ॥