________________
m
(५४) श्रीलरेमामाच्याकरणमा
नाम्यन्तो नपुंसकः ॥ मियतिस्त्रा। प्रियतिमृणा। प्रियतिसग्राम । शन्का विविधाः । दध्यादिवत् केचित्स्वतो लिङ्गभाजः, परे गुणक्रियादिमहत्तिनिमित्ताः पटुचिकीर्वादयो विशेष्यानुरूपलि
भाजः । वारि । हे वारे। हे वारि । ग्रामणि । ग्रामण्या। ग्रामणिना। ग्रामण्याम। ग्रामणीनाम्। एवं सुधिपध्यादयः। परि। आत्वे । पराभ्याम् । परीणाम् ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् ॥ १।४ । ६३ ॥
नाम्यन्तस्य नपुंसकस्य टादौ स्वरे ।।दना । प्रियदना । अस्थि । सस्थि । अक्षि । मधु । त्रषु । सानु । पटु । पटवे । पटुने। मियक्रोष्टु । प्रियक्रोष्ट्रा। भियकोष्टुना। अतिगु। अतिगुना। एवं प्रधुसुन्वादयः। कर्तृ । हे कर्तृ । हे कर्तः । कळ । कर्तृणा ॥
इति श्रीतपोगण्छावार्थविजयदेवमरिविजयसिंहमूस्पिट्टपरम्पराप्रतिष्ठितगीतार्थस्वादिमुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां स्वरान्ता नपुंसकलिङ्गाः ॥
॥ अथ व्यञ्जनान्ताः पुंलिङ्गाः ॥
-
चजः कगम् ॥ २॥ १। ८६ ॥ धुटि प्रत्यये पदान्ते च तच्चासस्परे स्यादिविधौ च पूर्वस्मिन् ॥ मुवाक् । सुवाग । सुवाचौ । सुवाच ॥
अञ्चोऽनायाम् ॥ ४।२।४६ ॥ एवोपान्त्यमस्य लुक किति किति च ॥ अन यामिति किम् ? । अचितोऽतिविः ॥