________________
( ३०६ )
श्रीलघुहेमप्रभाव्याकरणम्.
स्यादेः प्लुप् सा चरित् ॥ रित्करणं प्रतिषिद्धस्यापि पुंवद्भावस्य रितीति विधानार्थम् ॥ शुक्लशुक्लं रूपम् || कालककालिका ॥ पक्षे शुक्लजातीयः ॥
॥ प्रियसुरवं चाकृच्छ्रे ॥ ७ ॥ ४ । ८७ ॥ वा द्विरादौ स्यादेः प्लुप च ॥ प्रियप्रियेण प्रियेण वा दत्ते ॥ सुखसुखेन सुखेन वाऽधीते ॥
वाक्यस्य परिवर्जने ॥ ७ । ४ । ८८ ॥
वर्जनार्थी वाक्यांशः परिर्वा द्विः ॥ परिपरि परि वा त्रिगभ्यो दृष्टयः ॥ वाक्यस्येति किम् ? । परित्रगर्त्त दृष्टो मेघः ॥
परस्पराऽन्योन्येतरेतरस्याम्
स्यादेव पुंसि || ३ | २ ।१॥
प्रयुज्यमानस्य सम्बन्धिनः । इमे सरव्यौ कुले वा परस्परां परस्परन अन्योन्याम् अन्योन्यम् इतरेतराम् इतरेतरम् भोजयतः । आभिः सरवीभिः कुलैर्वा परस्परां परस्परेण अन्योन्याम् अन्योन्येन इतरेतराम् इतयेतरेण भोज्यते । अपुंसीति किम् ? । इमे नराः परस्परं भोजयन्ति । अपरोऽर्थः । परस्परादीनामपुंसि प्रयुज्यमानानां सम्ब न्धिनः स्यादेरम् वा । आभिः सखीभिः कुलैर्वा परस्परं परस्परेण भोज्यते । पुंसीतिच्छित्वा अम्बिधानमपि एभिर्नरैः परस्परं परस्परेण वा भोज्यते । इमे परस्परादयः शब्दाः स्वभावादेक वपुंस्त्ववृत्तयः कर्मव्यतीहारविषयाः । अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनानां द्विर्वचनादि निपात्यते ॥