________________
तरिसप्रकाराम
(३९१)
.. प्रियसुखादानुकूल्ये ॥ ७॥ २॥ १४०॥.... - गम्ये कृग्योगे डाच् । प्रियाकरोति. गुरुम् । सुखाकरोति ।
आनुकूल्य इति किम् ? । प्रियं करोति साम। सुखं करोत्यौषधपाना। ... दुःखात्प्रातिकल्ये ॥ ७.। २ । १४१ ॥....
गम्ये कृग्योगे डाच । दुःखाकरोति शत्रुम् । प्रातिकूल्य इति किम् ? । दुःखं करोति रोगः ॥
शूलात्पाके ॥७।२। १४२॥ कृग्योगे डाच । शूलाकरोति मांसम् ॥ .
सत्यादशपथे ॥ ७॥२ । १४३ ॥ कृग्योगे डान् । सत्याकरोति वणिग् भाण्डम् । अशपथ इति किम् ? । सत्यं करोति । शपथमित्यर्थः ॥
मद्रभद्राद्वपने ॥७।२। १४४ ॥ कृग्योगे डाच् । मद्राकरोति भद्राकरोति नापितः । वपन इति किम् ? । मद्रं करोति साधुः ॥
अव्यक्तानुकरणादनेकस्वरात्कृभ्वस्तिनानितौ द्विश्च ॥ ७।२।१४५॥ डाज् वा । यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽन्यक्तः ॥ ...
॥डाच्यादौ ॥ ७॥२ । १४९ ॥ अव्यक्तानुकरणस्यानेकस्वस्याच्छब्दान्तस्य द्विवे सति तो लुक् । पटपटाकरोति भवेत् स्याद्वा । आदाविति किम् ?। पतपताकरोति । पूर्वसूत्रे अनेकस्वरादिति किम् ? । खाट् करोति । अनिताविति किम् ? । परिति करोति ॥