________________
(२४०)
श्रीलधुहेमप्रभाध्याकरणम्
वर्षादश्च वा ॥६।४ । १११॥ कालवाचिनो द्विगोस्तेन निवृत्त इत्यादिपञ्चकविषये ईनः । द्विवर्षः। द्विवर्षीणः ॥ संख्याधिकाभ्यां वर्षस्याभाविनि ॥७। ४ । १८ ॥
ञ्णिति तद्धिते स्वरेष्वादेः स्वरस्य वृद्धिः। द्विवार्षिकः। अधिकवार्षिकः । अभाविनीति किम् ? । द्वैवर्षिकं धान्यम् ॥
प्राणिनि भूते ॥ ६ । ४ । ११२ ॥ कालार्थाद् वर्षान्ताद् द्विगोरः । द्विवर्षों वत्सः ॥
मासाद्वयसि य: ॥६। ४ । ११३ ॥ द्विगोभूते । द्विमास्यः शिशुः ॥
ईनञ् च ॥ ६।४ । ११४ ॥ मासाद् भूते यो वयसि । मासीनो मास्यो दारकः ॥
षण्मासाद्ययणिकण ॥ ६। ४ । ११५ ॥ कालार्थाद् भूते वयसि । षण्मास्यः। पाण्मास्यः। पाण्मासिकः शिशुः॥
सोऽस्य ब्रह्मचर्यतहतोः॥ ६ । ४ । ११६ ॥ प्रथमान्तात्कालार्थादिकम् । मासिकं ब्रह्मचर्यम्। मासिकस्तद्वान् ॥
प्रयोजनम् ॥६। ४ । ११७ ॥ तदस्येकण् । जैनमहिकं देवागमनम् ॥ :
एकागाराञ्चौरे ॥६।४।११८ ॥ तदस्य प्रयोजनमिति विषये इकण । ऐकागारिकः। चौरे नियंमाथै वचनम् । तेनेह न एकागारं प्रयोजनमस्य भिक्षोः ॥