________________
तद्धितमकरणम्.
हेमन्ताद्वातलुक् च ॥ ६ ॥ ३ | ९१ ॥
शेषेऽण् । हैमनम् । हैमन्तम् । हैमन्तिकम् । पूर्व हैमनम् ॥
प्रावृष एण्यः ॥। ६ । ३ । ९२ ॥
शेषे । मातृयः ॥
स्थामाजिनान्ताल्लुप् ॥ ६ । ३ । ९३ ॥
शैषिकस्य । अश्वत्थामा । सिंहाजिनः ॥
तत्र कृतलब्धक्रीतसंभूते ॥ ६ ॥ ३ । ९४ ॥ यथायोगमणादय एयणादयश्च स्युः । स्रौघ्नः । माथुरः । औत्सः । बाह्यः । बाह्वोकः । नादेयः । राष्ट्रियः ॥
कुशले ॥ ६ । ३ । ९५ ॥ सप्तम्यन्ताद्यथाविहितमणेयणादयः । स्रौघ्नः । नादेयः ॥
पथोऽकः ॥ ६ । ३ । ९६ ॥
सप्तम्यन्तात् कुशले । पथकः ॥
( २११ )
कोऽश्मादेः ः ॥। ६ । ६ । ९७ ॥
सप्तम्यन्तात् कुशले । अश्मकः । अशनिकः ॥
जाते । ६ । ३ । ९८॥
सप्तम्यन्ताद्यथाविहितमणेणयाणादयः । माथुरः । औत्सः । बाह्यः । नादेयः । राष्ट्रियः ॥
पोष्टमद्राज्जातेः ॥ ७ । ४ । १३ ॥
पदोत्तरपदस्य स्वरेष्वादेः स्वरस्य मिति तद्धिते वृद्धिः । प्रोष्ठपादः । भद्रपादो बटुः ॥