________________
असन्धिप्रकरणम्.
वात्यसन्धिः ॥ १ । २ । ३१ ॥
गोरोतः पदान्तस्थस्य ॥ गो अग्रम । गोऽग्रम् । गवाश्रम ||
इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह रिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविप्रशाखीयतपोगच्छाचार्यभट्टारक श्रीबिजयमोमसूरिविरचितायां लघुहेमप्रभायां स्वरसन्धिः ॥
॥ अथासन्धिप्रकरणम् ॥
( १३ )
न सन्धिः ॥ १ । ३ । ५२ ॥
उक्तो वक्ष्यमाणश्च विरामे || दधि अत्र । तद् लुनाति ॥ प्लुतोऽनितौ ॥ १ । २ । ३२ ॥
स्वरेऽसन्धिः । देवदत्त ३ अत्र न्वसि । अनिताविति किम् ? | श्लोकेति ॥
सम्मत्यसूयाकोपकुत्सनेष्वायामन्त्रयमादौ स्वरे
स्वन्त्यश्च प्लुतः ॥ ७ । ४ । ८९ ॥
वाक्यस्य द्विः द्वित्वे वा ॥ माणवक ३ माणवक्र २ आर्यः खल्वसि । रिक्तं ते आभिरूप्यम् । इदानीं ज्ञास्यसि जाल्म । रिक्ता से शक्तिरिति वा । आदाविति किम् ? । भव्यः खल्वसि माणवक ।
भर्त्सने पर्यायेण ॥ ७ । ४ । ९० ॥
वाक्यस्य यदामन्त्र्यं तद्विः ॥ द्वित्वे च पूर्वोत्तरपदयोः स्वरेष्वन्त्यः