________________
समिकरणम्.
( १८७ )
विकारेऽवयवे चाकम् ॥ औमकम् । औमम् । और्णकम् ।
और्णः कम्बलः ॥
एण्या एयञ ॥। ६ । २ । ३८ ॥
विकारेऽवयवे च ॥ ऐणेयं मांसमङ्गं वा ॥ कौशेयम् || ६ । २ । ३९ ॥
कौशेयं वस्त्रं सूत्रं वा ॥
परशव्याद्यलुक् च ॥ ६ । २ । ४० ॥ विकारेऽण् ॥ पारशवम् ॥
कंसीयाञ्यः || ६ । २ । ४१ ॥
विकारे तद्योगे यलुक् च ॥ कांस्यम् ॥
हेमार्थान्माने । ६ । २ । ४२ ॥
विकारेऽण् ॥ हाटको निष्कः । मान इति किम् ? । हाटकमयी यष्टिः ॥ द्रोर्वयः ॥ ६ । २ । ४३ ॥
माने विकारे ॥ द्रुवयं मानम् ॥
६ । २ । ४४ ॥
विकारे ॥ मानं संख्यादि । शतेन क्रीतं शत्यम् । शतिकम् । एवं विकारे ऽपि ॥
मानात्क्रीतवत् ।
हेमादिभ्योऽञ् ॥ ६ । २ । ४५ ॥
विकारेऽवयवे च यथायोगम् ॥ हैमम् । राजतः ॥
अभक्ष्याच्छादने वा मयट् ॥ ६ । २ । ४६ ॥ विकारेऽवयवे च यथायोगम् ॥ भस्ममयम् । भास्मनम् । अभक्ष्याच्छादन इति किम् ? | मौद्गः सूपः । कार्पासः पटः ॥