________________
( १५० )
श्रीलघुमनभाव्याकरणम्.
रुक् । ऋतीषट् । तुरासद् । तुराषाट् इति तुच्छान्दसम् । परीतत् । अत्र किग्रहणादन्यत्र धातुग्रहणे तदादिविधिः, तेनायस्कृतम् ॥ घञ्युपसर्गस्य बहुलम् ॥ ३ । २ । ८६ ॥
उत्तरपदे दीर्घः ॥ नीलेदः । कचिन्न । निषादः । क्वचिद्विकल्पः । प्रतीवेशः । प्रतिवेशः । प्रतीपादः २ । क्वचिद्विषयभेदेन । प्रासादो गृहम् । प्रसादोऽन्यः ॥
नामिनः काशे ॥ ३ | २ | ८७ ॥
उपसर्गस्याजन्ते उत्तरपदे दीर्घः ॥ नीकाशः ॥
दस्ति ॥ ३ । २ । ८८ ॥
नाम्यन्तस्योपसर्गस्य दीर्घः ॥ नीत्तम । त्तम । द इति किम् ? | वितीर्णम् । वीति किम् ? | मुदत्तम् ॥
अपील्वादेवहे ॥ ३ । २ । ८९ ॥
नाम्यन्तस्य उत्तरपदे दीर्घः ॥ ऋषीवहम् । धान्ते तु ऋषीवहः । अपील्वादेरिति किम् ? | पीलुवहम् ॥
शुनः ॥ ३ । २ । ९० ।।
उत्तरपदे दीर्घः । श्वादन्तः ॥
एकादश षोडश षोडन् षोढा षड्ढा || ३ |२| ९१ ॥ एते निपात्यन्ते ॥
द्विःयष्टानां द्वात्रयोऽष्टाः प्राक्शतादनशीतिबहुव्रीहौ ।। ३ । २ । ९२ ॥
सङ्ख्यायामुत्तरपदे ॥ द्वादश । त्रयोविंशतिः । अष्टात्रिंशत् । अनशीतीत्यादि किम् ? । द्व्यशीतिः । द्वित्राः । प्राकूशतादिति किम् ? | द्विशतम् ॥