________________
( १२१ )
मासोऽयम्, वाक्येन क्षेपानवगमात् । क्षेपे किम् ? । खट्वामारूढ उपाध्यायोऽध्यापयति ॥
कालः ॥ ३ । १ । ६० ॥
द्वितीयान्तं क्तान्तेन समासस्तत्पुरुषः । राज्यारूढाः । अहरतिसृताः ॥ व्याप्तौ ॥ ३ । १ । ६१ ॥
द्वितीयान्तं कालवाचि व्यापकेन समासस्तत्पुरुषः । मुहूर्त्तसुखम् । क्षणपाठः । दिनगुडः । व्याप्ताविति किम् ? । मासं पूरको याति ।। श्रितादिभिः ॥ ३ । १ । ६२ ॥
द्वितीयान्तं समासस्तत्पुरुषः । धर्मश्रितः । शिवगतः ॥ प्राप्तापन्नौ तयाच्च ॥ ३ । १ । ६३ ॥
प्रथमान्तावेतौ द्वितीयान्तेन समासस्तत्पुरुषस्तद्योगे चानयोरत् । प्राप्तजीविका । आपन्नजीविका ॥
ईषद्गुणवचनैः ॥ ३ । १ । ६४ ॥
समासस्तत्पुरुषः । ये गुणे वर्त्तित्वा तद्योगाद्गुणिनि वर्त्तन्ते ते गुणवचनाः । ईषत्पिङ्गलः । ईषद्रक्तः । गुणवचनैरिति किम् ? | ईपगार्ग्यः ॥
तृतीया तत्कृतैः ॥ ३ । १ । ६५ ॥
गुणवचनैः समासस्तत्पुरुषः । शङ्कुलाखण्डः । मदपटुः । तृतार्थतैरिति किम् ? । अक्ष्णा काणः । गुणवचनैरित्येव । दधा पटुः । पाटवमित्यर्थः ॥
चतस्त्रार्धम् ॥ ३ । १ । ६६ ॥
तृतीयान्तं तत्कृतार्थेन समासस्तत्पुरुषः । अर्धचतस्रो मात्रा: ।