________________
समासप्रकरणम्.
( ११५ )
योग्यतावीप्सार्थानतिवृत्तिसादृश्ये ॥ ३ । १ । ४० ॥
अव्ययं नाम्ना सह पूर्वपदार्थे नित्यं समस्यते सोऽव्ययीभावः । अनुरूपं चेष्टते । प्रत्यर्थम् । वीप्सायां द्वितीयाविधानाद्वाक्यमपि । अर्थमर्थं प्रति । यथाशक्ति । सशीलमनयोः ॥
#
यथाऽथा ।। ३ । १ । ४१ ॥
नाम नाम्ना पूर्वपदार्थे नित्यं समस्यते सोऽव्ययीभावः । यथारूपं चेष्टते । यथावृद्धमर्चय । यथासूत्रमधीष्व । अथा इति किम् । यथा चैत्रस्तथा मैत्रः ॥
प्रतिपरोऽनोरव्ययीभावात् ॥ ७ । ३ । ८७ ॥ अक्ष्णः समासान्तोऽत् । प्रत्यक्षम् । परोक्षम् । अन्वक्षम् ॥ अनः ॥ ७ । ३ । ८८ ॥
अव्ययीभावादत् ॥
नोऽपदस्य तद्धिते ॥ ७ । ४ । ६१ ॥
अन्त्यस्वरादेर्लुक् । उपतक्षम् ॥
नपुंसकाद्वा ॥ ७ । ३ । ८९ ॥
अनोऽव्ययीभावादत् ॥ उपचर्मम् | उपचर्म ॥
1
गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवग्या |
७ । ३ । ९० ।
अव्ययीभावादत् । अन्तर्गिरम् । अन्तर्गिरि । उपनदम् । उपनदि । उपपौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रहायणि । उपस्रुचम् । उपस्रुक् ॥
सङ्ख्याया नदीगोदावरीभ्याम् ॥ ७ । ३ । ९१ ॥