________________
(११०)
भीरपहेमभभाव्याकरणम्,
किम् ? । ऐन्याच कौबेर्याध यदन्तरालमिति ॥ विशेषणसर्वादिसङ्ख्यं बहुव्रीहौ ॥३।१।१५० ॥ पाक् स्यात् ॥ चित्रगुः । सर्वशुक्लः । द्विकृष्णः ॥
ताः ॥३।१ । १५१ ॥ तान्तं सर्व बहुव्रीहौ प्राग् स्यात्। कृतकटः। विशेष्याथै वचनम् स्पर्धे परत्वार्थ च । कृतभव्यकटः । केचित्तु सर्वादिभ्यः क्तान्तस्य पूर्वनिपातं नेच्छन्ति । बहुवचनं व्याप्त्यर्थम, तेन कृतप्रिय इत्यत्र परेणापि स्पर्ड क्तान्तस्यैव पूर्वनिपातः ॥
जातिकालसुखादेनवा ॥३।१ । १५२ ॥
बहुव्रीहौ क्तान्तं प्राक् स्यात् ॥ कृतकटः । कटकृतः । मासजाता । जातमासा । सुखजाता । जातसुखा । मुखादयो दश ॥
आहिताग्न्यादिषु ॥३।१।१५३ ॥
तान्तं वा प्राग् बहुव्रीहिषु । आहिताग्निः। अग्न्याहितः। जात‘दन्तः । दन्तजातः॥
प्रहरणात् ॥ ३ । १ । १५४ ॥ तान्तं बहुव्रीहौ वा प्राक् ॥ उद्यतासिः । अस्युद्यतः ॥
न सप्तमीन्दादिभ्यः ॥ ३ । १ । १५५ ॥ पहरणाच प्राग् बहुव्रीहौ ॥ इन्दुमौलिः । पद्मनाभः। असिपाणिः । बहुलाधिकारात् पाणिवज्रः। बहुवचनं प्रयोगानुसरणाथम् । एवमुत्तरत्रापि ॥
गड्वादिभ्यः ॥३।१। १५६ ॥ बहुव्रीहौ सप्तम्यन्तं वा प्राक् ॥ गडुकण्ठः । कण्ठाड्डः। मध्ये