________________
समासप्रकरणम्..
( ९९ )
वर्त्तमानस्य शब्दस्य द्वौ बहुवद्वा ॥ त्वं गुरुः । यूयं गुरवः । युवां गुरू । यूयं गुरवः । एष मे पिता । एते मे पितरः ॥
इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परा
प्रतिष्ठितगीतार्थादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि संविग्नशाखीयतपोगच्छाचार्यभट्टारक श्रीविजमसूरिविरचितायां लघुहेमप्रभायां कारकाणि ॥
॥ अथ समासप्रकरणम् ॥
समर्थः पदविधिः ॥ ७ । ४ । १२२ ॥
सर्वः ॥ सामर्थ्य व्यपेक्षा एकार्थीभावश्च । पस्परं साकाङ्क्षत्वं व्यपेक्षा | भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकार्थोपस्थापकत्वमेकार्थीभावः । पदविधिश्व समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपः । धर्मश्रितः । पुत्रीयति । कुम्भकारः । औपगवः । नमो देवेभ्यः। धर्मस्ते मे स्वम् । अङ्ग कूज २, इदानीं ज्ञास्यसि जाल्म । सविशेषणानां वृत्तिर्न । वृत्तस्य च विशेषणयोगो न । कचित्तु विशेषणयोगेऽपि गमकत्वात् समासः । देवदत्तस्य गुरुकुलम् । समर्थ इति किम् ? | पश्य धर्मं श्रितो मैत्रो गुरुकुलमित्यादि । पदोक्तेर्वर्णविधिरसामार्थ्यऽपि । तिष्ठतु दध्याशान त्वं शाकेन । एवं समास-नामधातु-कृत्तद्धितेषु, वाक्ये व्यपेक्षा, वृत्तावेकार्थीभावः, शेषेषु पुनर्व्यपेक्षेवसामर्थ्यम् ॥
नाम नाम्नैकार्थ्ये समासो बहुलम् ॥ ३ । १ । १८ ॥
लक्षणमिदमधिकारथ ॥ तेन विशेषसंज्ञाऽभावेऽप्यनेन समासः । विस्पष्टं पटुः । विस्पष्टपटुः । दारुणाध्यापकः । सर्वचर्मीणो रथः । कन्ये इव । श्रुतपूर्वः । नामेति किम् ? । चरन्ति गावो धनमस्य ।