________________
(९२ ).
श्रीलघुहेमनमल्याकरणम्.
स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे॥श २॥ ७९ ॥
- पञ्चमी वा॥ यतो द्रव्ये शब्दप्रवृत्तिः स पर्यायो गुणोऽसत्त्वम् । तेनैव वा रूपेणाभिधीयमानं द्रव्यादि । स्तोकात् स्तोकेन का मुक्तः । एवमल्पात् अल्पेनेत्यादि। असत्व इति किम् ?। स्तोकेन विषेण हतः ॥
अज्ञाने ज्ञः षष्ठी ॥२।२। ८०॥ करणे ॥ सर्पिषो जानीते । आज्ञान इति किम् ? । स्वरेण पुत्रं जानाति ॥
शेषे ॥ २।२। ८१ ॥ कर्मादिभ्योऽन्यस्तदविवक्षारूपःस्वस्वामिभावादिसम्बन्धविशेषः शेषस्तत्र षष्ठी ॥ रामः पुरुषः । माषाणामश्नीयात् ॥ . रिरिष्टात्स्तादस्तादसतसाता ॥ २।२। ८२॥
एतदन्तर्युक्तात्षष्ठी ।। उपरि, उपरिष्टात्, परस्ताद्, 'पुरस्तात् , पुरः, दक्षिणतः, अधराद् वा ग्रामस्य ।
कर्मणि कृतः ॥२।२। ८३ ॥ षष्ठी॥ अपां स्रष्टा । गवां दोहः । कर्मणीति किम् ? । शस्त्रेण भेत्ता । स्तोकं पक्ता । कृत इति किम् ? । भुक्तपूर्वी ओदनम् ।
द्विषो वाऽतृशः ॥ २।२। ८४ ॥ कर्मणि षष्ठी ॥ चौरस्य चौरं वा द्विषन् ॥
वैकत्र छयोः ॥२।२। ८५।। द्विकर्मषु कृत्पत्ययान्तेषु धातुषु कर्मणि षष्ठी। अजाया नेता खुघ्नं खुघ्रस्य वा । अजामजाया वा नेता मुनस्य ॥
कर्तरि ॥२।२। ८६ ॥