________________
૧૪૧
वान् आत्मा एव एतेभ्यो भूतेभ्यः पृथिव्यप्तेजोवाय्वाकाशेभ्यः समुत्थाय प्रकटीभूय मद्यांगेभ्यो मदशक्तिरिव ततस्तानि भूतान्येव अनुविनश्यति जीवः, तत्रैव विलयं याति जले बुबुद इव, ततो भूतातिरिक्तस्य आत्मनोऽभावात् न प्रेत्यसंज्ञास्ति, मृत्वा पुनर्जन्म नास्तीति परं अयुक्तोऽयमर्थः शृणु तावदेतेषामर्थ - विज्ञानघन इति कोऽर्थः ? विज्ञानघनो ज्ञानदर्शनोपयोगात्मकं विज्ञानं तन्मयत्वादात्माऽपि विज्ञानघनः प्रतिप्रदेशमनंतपर्यायात्मकत्वात्, सच विज्ञानघन उपयोगात्मक आत्मा कथंचित् भूतेभ्यस्तद्विकारेभ्यो वा घटादिभ्यः समुत्तिष्टते उत्पद्यते इत्यर्थः घटादिज्ञानपरिणतो हि जीवो घटादिभ्य एव हेतुभूतेभ्यो भवति घटादिज्ञान परिणामस्य घटादिवस्तुसापेक्षत्वात् एवं च एतेभ्यो भूतेभ्यो घटादिवस्तुभ्यस्तत्तदुपयोगतया जीवः समुत्थाय समुत्पद्य तान्येव अनुविनश्यति कोऽर्थः ? तस्मिन् घटादौ वस्तुनि नष्टे व्यवहिते वा जीवोsपि तदुपयोंगरूपतया नश्यति, अन्योपयोगरूपतया उत्पद्यते, सामान्यरूपतया वा अवतिष्ठते, ततश्च न प्रेत्यसंज्ञास्ति, कोऽर्थः १ न प्राक्तनी घटाद्युपयोगसंज्ञा अवतिष्ठते, वर्त्तमानोपयोगेन तस्या नाशितत्वादिति, अपरं च " स एव अयं आत्मा ज्ञानमयः " इत्यादि तथा " द द द " कोऽर्थः १ दमो दानं दया इति दकारत्रयं यो वेत्ति स जीवः । किं च विद्यमान भोक्तृकं इदं शरीरं भोग्यत्वात् श्रोदनादिवत् इत्याद्यनुमानेनापि तथा
“ चीरे घृतं तिले तैलं, काष्ठेऽग्निः सौरभं सुमे । चंद्रकांती सुधा यद्वत्तथात्मांगगतः पृथक् " ॥ १ ॥ एवं च प्रभुवचनैः छिनसंदेहः श्रीइंद्रभूतिः पंचशतपरिवारः प्रव्रजितः । तत्क्षणाच " उप्पनेइ वा ( १ ) विगमेह