SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ શ્રી પાર્શ્વનાથસ્તોત્ર ૨૯૩ [3] એસે આઠ નામગર્ભિત શ્રી પાર્શ્વનાથસ્તોત્ર श्री पार्श्वः पातु वो नित्यं, जिनः परमशंकरः । नाथः परमशक्तिश्च, शरण्यः सर्वकामदः ॥१॥ सर्वविघ्नहरस्वामी, सर्वसिद्धिप्रदायकः । सर्वसत्चहितो योगी, श्रीकरः परमार्थदः ॥२॥ देवदेवः स्वयंसिद्धश्चिदानन्दमयः शिवः । परमात्मा परब्रह्म, परमः परमेश्वरः ॥३॥ जगन्नाथः सुरज्येष्ठो, भूतेशः पुरुषोत्तमः । सुरेन्द्रो नित्यधर्मश्च, श्रीनिवास: सुधार्गवः ॥४॥ सर्वज्ञः सर्वदेवेशः, सर्वगः सर्वतोमुखः। सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगद्गुरुः ॥५॥ तत्त्वमूर्तिः परादित्यः, परब्रह्मप्रकाशकः । परमेन्दु परप्राणः, परमामृतसिद्धिदः ॥६॥ अजः सनातन: शम्भुरीश्वरश्च सदाशिवः । विश्वेश्वरः प्रमोदात्मा, क्षेत्राधीशः शुभप्रदः ॥७॥ साकारश्च निराकारः, सकलो निष्कलोऽव्ययः।। निर्ममो निर्विकारश्च, निर्विकल्यो निरामयः॥८॥ अमरश्चाजरोऽनन्त, एकोऽनेकः शिवात्मकः । अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरञ्जनः ॥९॥
SR No.022901
Book TitleMahaprabhavik Uvasaggaharam Stotra Yane Jain Mantravadni Jaygatha
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherJain Sahitya Prakashan Mandir
Publication Year1969
Total Pages478
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy