________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર वेसकरंडयतुल्लेहिं सोवागकरंडसमाणेहिं । दव्वपरम्परगणिहा नियनियगच्छाणुराएण ॥१५॥ जं जीयमसोहिकरं पासच्छपमत्त संजयाईणं । बहुएहि विआयरियं न तेण जीएण ववहारो ॥१६॥
व्याख्या॥ लोकानां एषा स्थितिः पितृपितामहप्रपितामहप्रमुखागता मर्यादा सा द्रव्यपरम्परा स्थापनोच्यते कुलक्रमागतत्वात् ॥१०॥
नैव मोक्ष्येऽहमिति संसारव्यामोहमूढानामेषा स्थितिः कुलक्रमागतां मर्यादां पालयंतः भ्रश्यंति ये जिनोक्तवचनमार्गात् परिभ्रष्टाः संतः ते पुरुषाः बोधिबीजं हारयति ते नरा आत्महितं नैव जाति ॥११॥
द्रव्यपरम्परावंशो यस्मिन् कुले जातः स वंशः सप्तदशविधसंयमभ्रष्टानां सर्वजीवानां भावपरम्पराधर्म उच्यते । जिनेन्द्राज्ञातः सुप्रसिद्धः अर्हदाज्ञां विना धर्मोऽप्यकिंचित्करः ॥१२॥
द्रव्यपरम्परातः प्रद्योतनराजेन दुर्गः स्नेहरागेण कौशाम्ब्यां नगर्यामित्यर्थः मृगावत्या राज्या सुतवचनच्छलनादिना कारितः ॥१३॥
देवद्धिक्षमाश्रमणं यावत् भावतः परम्परामहं जाने । पुनः शिथिलाचारैः स्थापिता सा द्रव्यपरम्परा बहुधा गणभेदात् ॥१४॥
वेश्याभूषणकरंडसदृशा अंतोऽसारा उपरि दृष्टा तेजसा फात्काररूपा चर्मकारकर्मकरंडसदृशा भूरितचर्मखंडयुक्तत्वेनांतर्बहिश्चासारभूता तथा तद्वद्र्व्यपरम्परा गृहीताऽसारा निजनिजगच्छानुसारेण रागेण स्नेहेनाज्ञाविराधकादिदोषबाहुल्यात्तद्रव्यपरम्पराशुद्धा तद्वत् ॥१५॥
यज्जीतमशुद्धकरं पार्श्वस्थप्रमत्तसंयतादिभिरपि बहुरप्याचरितमपि न स जीतव्यवहारो भण्यते ॥१६॥
અર્થ :- હવે દ્રવ્યપરંપરાની ઓળખાણ કહેવાય છે : પિતા-દાદા અને પરદાદાથી ચાલી આવતી મર્યાદા (રિવાજ) હોય તેને