________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૨૭ व्याख्या॥ ते णं काले णं इत्यादितो हुत्थत्ति पर्यन्तं सुगमं १ । से केणद्वेणमित्यादितो होत्थत्ति यावत् । तत्र से केणद्वेणं ति हे भदंत! तत्केन अर्थेन यत् श्रीवीरस्य नवगणा एकादशगणधरा इति अन्येषां तु जावइया जस्सगणा तावइया गणहरा तस्स इति प्रसिद्धत्वात् ? इति शिष्येण प्रश्नेकृते आचार्य आह २ । समणस्सेत्यादित इक्कारसगणहरा होत्थत्ति पर्यन्तं । तत्र अकंपिताचलभ्रात्रोरेकैव वाचना जाता । एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं नवगणा एकादशगणधरा इति । यस्मात् एकवाचनिको यतिसमुदायो गण इति, अत्र मंडिकमौर्यपुत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथग्जनकापेक्षया तत्र मंडिकस्य पिता धनदेवो, मौर्यपुत्रस्य तु मौर्य इति अनिषिद्धं च तत्र देशे एकस्मिन्पत्यौ मृते द्वितीयपतिवरणमिति वृद्धाः ३। सव्वे एए समणस्सेत्यादितो निरवच्चा वुच्छिन्नत्तिपर्यन्त । तत्र इन्द्रभूत्यादयः सर्वेऽपि एते गणधरा द्वादशांगिनः आचारांगादिदृष्टिवादांतश्रुतवंतः स्वयं तत्तत्प्रणयनात् । चउद्दसपुव्विणोत्ति चतुर्दशपूर्विणः द्वादशांगित्वे उक्त चतुर्दशपूर्वित्वं आगतमेव तथापि पूर्वाणां प्राधान्यख्यापनार्थं इदं विशेषणं, प्राधान्यं च पूर्वाणां पूर्वप्रणयनात्, महाप्रमाणत्वात्, अनेकविद्यामंत्रमयत्वाच्च, अत एव समत्तगणिपीडगधारगा इति गणी भावाचार्यस्तस्य पिटकमिव रत्नकरंडकमिव गणिपीटकं द्वादशांगं समस्तं यद् गणिपीटकं तस्य धारकाः राजगृहे नगरे अपानकेन मासिकेन भत्तेणंति भत्तेन भक्तप्रत्याख्यानेन पादपोपगमनानशनेन मोक्षं गताः । तत्र नव गणधरा भगवति जीवत्येव सिद्धा, इन्द्रभूतिसुधर्माणौ तु भगवति निवृत्तौ । जे इमे इत्यादि ये इमे अज्जत्ताएत्ति अद्यतनकाले श्रमणा निर्ग्रन्था विहरंति ते सर्वे भगवतः सुधर्मणः आवच्चिज्जा इति अपत्यानि शिष्यसंतानजा इत्यर्थः । अवशेषा गणधरा निरपत्याः शिष्य-संतानरहिताः सुधर्मस्वामिनि स्वस्वगणान्निसृज्य शिवं गताः ॥४॥