________________
॥ ॐ श्री अर्हम् नमः ॥ चतुर्थस्तुतिकुयुक्तिनिर्णयच्छेदनकुठारः श्री अहँ जिनवीरमीश्वरविभुं त्रैलोक्यचिंतामणीम्, तत्त्वज्ञाननिधिं तमोदिनमणिं श्रेयः श्रिया द्योमणिम् । भक्त्या वंदितमिंद्रमानवगणैर्देवाधिदेवं सदा, वंदे भूमि निमज्जतां भवजले पोतायमानं परम् ॥१॥ वीतरागं परित्यज्य, योऽन्यदेवमुपासते । कामधेनुं तिरस्कृत्य, स खरी दोग्धि मूढधीः ॥२॥ स्याद्वादस्य निधिं वीरं, प्रणिपत्य जगद्गुरुम् । शंकोद्धारमहं कुर्के, चतुर्थस्तुतिनिर्णये ॥३॥ शिष्टा हि शास्त्रादौ किमपि प्रारिप्सितपरिसमाप्तिप्रतिबंधकदुरितनिवर्त्तनायेष्टदेवतानमस्कारपूर्वकमेव मंगलमुपक्रमंते तथाऽत्राप्यासन्नोपकारकशासनाधीश्वर श्रीवीरपरमेश्वरनमस्कारात्मकं त्रिकरणशुद्ध्या परममंगलमुपन्यस्तम् । तथाच श्रोतृजनप्रवृत्त्यर्थमभिधेयसंबंधप्रयोजनत्रितयमपि नियमाद्वाच्यमित्यालोच्य चतुर्थस्तुतिकुयुक्तिनिर्णयशंकोद्धारो मुख्यवृत्त्याभिधेयतया निरूप्यते । निरभिधेये काकदंतपरिगणनमिव न सज्जनानां प्रवृत्तिः तथा वाच्यवाचकभावसंबंधस्तु नामतो व्यक्त एव प्रयोजनं चात्र दुःषमादोषानुभावात्केषांचिह्नुर्विदग्धोपदेशविप्रतारितानां भूयः शंकोदयः प्रादुर्भवतीति तन्निरासेन तन्मनोनैर्मल्यमाधातुमयं ग्रन्थः प्रारभ्यते।।
સર્વ તીર્થ શિરોમણિ શત્રુંજય ગિરિરાજ જ્યાં આવેલ છે તેવા સૌરાષ્ટ્ર દેશને પ્રાચીન-અર્વાચીન સમસ્ત આચાર્યોએ આર્યદેશ કહ્યો છે, પણ વર્તમાનમાં કાળની અપેક્ષાએ સૌરાષ્ટ્રદેશને અનાર્ય કહી તે અપેક્ષાએ શત્રુંજયાદિ તીર્થોને પણ અનાર્ય કહેનાર આત્મારામજીએ પ્રતિક્રમણ