________________
394
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુમાર यदुक्तं संघाचारवृत्तौ - उस्सग्गमाणत्ति एकविंशद्वारं व्याचिख्यासुर्गाथापूर्वार्धमाह - इरिउस्सग्गप्पमाणं पणवीसुस्सास अट्ठसेसेसु । ईर्यापथिक्याः कायोत्सर्गस्य प्रमाणं करणकालावधिः पंचविंशतिरुच्छ्वासाः चैत्यादिविषयगमनागमनाद्यतिचारविशोधकत्वात्तथा चागमः
भत्ते पाणे सयणासणे य अरिहंत समणसिज्जासु । उच्चारपासवणे पणुवीसं हुंति उसासा ॥१॥ तथा भाष्ये - पणवीसं उसासा इरियावहिया उस्सग्गेत्ति ॥
ते चतुर्विंशतिस्तवन चंदेसुनिम्मलयरा इत्यंतेन पंचविंशतिपदैः पूर्यन्ते पायसमाउसासा इति वचनात् । ततश्च नमस्कारेण पारयित्वा सम्पूर्णचतुर्विंशतिस्तवं पठ्यत इति वृद्धा एवं चास्य दैवसिकप्रतिक्रणत्वाद्य भावस्तेषां दिवसायतिचारविशोधकत्वादितश्चतुर्गुणाधुच्छासादिमानत्वानियतकायोत्सर्गत्वादस्य त्वनियतत्वात्तथा चार्षं -
सायं सयं गोसद्धं तिन्ने वसया हवंति पक्खंमि । पंचसय चाउम्मासे अट्ठसहस्सं च वारिसिए ॥१॥ चत्तारि दो दुवासल वीसं चत्ता य होंति उज्जोया । देसिय राइय पक्खिय चाउमासे य वरिसेय ॥२॥ देसिय राइय चाउम्मासे तहेव वरिसे य ।। एएसु हवंति नियया उस्सग्गा अनियया सेसा ॥३॥
शेषागमनादिविषया विचारणीयं बह्वत्र सूक्ष्मधियेति तथाष्टौ उच्छवासा अशेषेषु चैत्यवन्दना कायोत्सर्गेषु कालमानमिति । यदागमः - अटेव य उसासा पठवण पडिक्कमणमाई । न चात्राभिनगृहीता इति वाच्यं । आदिशब्दात् क्षिप्तत्वात् न चात्रभिनगृहीता सूत्रोपलक्षणत्वात् अन्यत्रापि