________________
૩૨૪
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર એ પાઠમાં પ્રતિક્રમણની આદિમાં ચોથી થઈ સહિત ત્રણ યુઈની ચૈત્યવંદના અને અંતમાં ક્ષેત્રદેવી પ્રમુખનો કાયોત્સર્ગ કહ્યો નથી. તથા થિરાપદ્રગથ્થકમંડન વાદીવેતાલ શ્રી શાંત્યાચાર્યકૃત શ્રી ઉત્તરાધ્યયન બૂવૃત્તિમાં પણ દેવની પ્રતિક્રમણની વિશેષ વિધિ કહી છે. તે પાઠ :
कायोत्सर्गः ततः प्रश्रवणादिभूमिप्रतिलेखनादनंतरं कुर्यात् सर्वदुःखविमोक्षणं तथा चास्यकर्मापचयहेतुत्वात् । उक्तं हि -
"काउस्सग्गो जहमुट्ठि यस्स भज्जंति अंगमंगाइ । तह भिदंति सुविहिया अट्टविहं कम्मसंघायं ॥१॥" तत्र च स्थितो यत् कुर्यात्तदाह - देसियंति प्राकृतत्वाद्वकारलोपे दैवसिकं चः पूरणे अतिचारमतिक्रमं चिंतयेद्ध्यायेदणुपुव्वसो इति आनुपूर्व्याक्रमेण प्रभातमुखवस्त्रिकाप्रत्युपेक्षणातो यावदयमेव कायोत्सर्गः । उक्तं हि - "गोसेमुहणंतगाई आलोइ देसिए य अइयारे । सव्वे समाणयित्ता हियए दोसेठविज्जाह ॥" किं विषयमतिचारे चिंतयेदित्याह - ज्ञाने ज्ञानविषयमेवं दर्शने चैव चारित्रे तथैव च पारितः समापितकायोत्सगर्गो येन स तथा वंदित्वा प्रस्तावाद्वादशावर्तवंदनेन तत इत्यतिचारचिंतनादनंतरं गुरुमाचार्यादि देसियत्ति प्राग्वदैवसिकः । तुः पूरणे अतिचारमालोचयेत् प्रकाशयेत् गुरुणामेव यथाक्रममालोचनासेवन्यान्यतरानुलोम्य क्रमानतिक्रमेण छ। प्रतिक्रम्य प्रतीपपराधस्थानेभ्यो निवृत्या प्रतिक्रमणं च मनसा भावविशुद्धितो वाचा तत्सूत्रपाठतः कायेनोत्तमांगेन मनादितो निसल्लो मायादिशल्यरहितः सूचकत्वात् सूत्रस्य वंदनकपूर्वकं क्षमयित्वा च वंदित्वा द्वादशावर्त्तवंदनेन तत इत्युक्तविधेरनंतरं गुरुमाचार्यादिकं कायोत्सर्ग दर्शनचारित्रश्रुतज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयलक्षणं जातौ चैकवचनं ततो गुरुवंदनानंतरं कुर्यात्सर्वदुःखविमोक्षणं पारियेत्यादि पूर्वार्द्ध स्तुतिमंगलं च सिद्धस्तवरूपं कृत्वा पाठांतरं वा सिद्धाणं