________________
૩૧૪
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુમાર वैद्यादयो व्याधिप्रतीकाराद्यर्थं धनभोजनवसनादिना बहुमन्यते तथा सप्रभावयक्षयक्षिण्यादीनामप्यैहिकलौकिकफलार्थं पूजोपयाचितादौ को दोषः मिथ्यात्वं हि तदास्याद्यदि मोक्षप्रदोऽयमिति बुद्ध्याराध्येत । यदाहुः -
अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥१॥ श्रूयते च - विशुद्धदृढसम्यक्त्वा रावणकृष्णश्रेणिकाभयकुमारादयोऽपि शत्रुजयपुत्रप्राप्त्याद्यैहिककार्यार्थं विद्यादेवताद्याराधनं कृतवंत इति ततश्चेहलोकार्थं यक्षाद्याराधनेऽपि किं नाम मिथ्यात्वं ? सत्यं तत्त्ववृत्या अदेवस्य देवत्वबुद्ध्याराधनमेव मिथ्यात्वं, तथापि यक्षाद्याराधनमिहलोकार्थमपि श्रावकेण वर्जनीयमेव प्रसंगाद्यनेकदोषसंभवात् । प्रायो हि जीवा मंदमुग्धवक्रबुद्धयः संप्रति च विशिष्यते ह्येवं विमृशंति यद्यनेन विशुद्धसम्यक्त्वेन महात्मना यक्षाद्याराधनं विधीयते । तदा नूनमयमपि देवो मोक्षप्रदतया सम्यगाराध्य इत्यादि परम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसंगस्तथा चैहिकफलार्थमपि यक्षाद्याराधकस्यापि प्रेत्य बोधिदुःप्राप्यं स्यात् । उक्तं च -
अन्नेसिं सत्ताणं मिच्छंतं जो जणेइ मूढप्पा ।। सो तेण निमित्तेणं न लहइ बोहिं जिणाभिहियं ॥१॥ रावणकृष्णादिभिश्च तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्योऽतिशायितया सर्वप्रतीतत्वेनापवादपदे यदि विद्याराधनादिकृतं तदापि तदालंबनग्रहणं नोचितं । यतः - जाणिज्ज मिच्छट्ठिी जे परालंबणाई घिप्पंति । जे पुण सम्मद्दिट्टी, तेसिं पुणो चढइ पयडीए ॥१॥ इति श्री श्राद्धप्रतिक्रमणसूत्रवृत्तौ संकाकंखविगिच्छेतिगाथायां ॥
ભાવાર્થ :- હવે લોકોત્તરમિથ્યાત્વનું સ્વરૂપ લખીએ છીએ. લોકોત્તર દેવગત મિથ્યાત્વ તે અન્યતીથિએ ગ્રહણ કર્યા જિનબિંબ પૂજવા. તથા