________________
૨૯૮
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
चाउम्मासियवरिसे उस्सग्गो खित्तदेवताए य । पक्खियसेज्जसुराए करिंति चउमासिएवेगे ॥ १००२ ॥
गतार्था ॥१००२॥
ननु यदि चतुर्मासिकादिषु भणितमिदं किमिति सांप्रतं नित्यं क्रियत
इत्याह
संपइ निच्चं कीरइ, संनिज्झाभवओ वि सिद्धाओ । वेयावच्चगराणं इच्चाइ वि बहुयालाओ ||१००३॥
व्याख्या सांप्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते कस्मात्सान्निध्याभातस्तस्य करणाद्विशिष्टादतिशायिनो वैयावृत्यकराणां प्रतीतानामित्याद्यपि न केवलं कायोत्सर्गादीप्यऽपीत्यर्थः आदिग्रहणात्संतिकराणामित्यादि दृश्यं प्रभूतकालात् बहोरनेहस इति गाथार्थ : ॥१००३॥
इत्थं स्थिते किं कर्त्तव्यमित्याह - विग्घविघायणहेडं चेईहररक्खणाय निच्वंपि ।
कुज्जा पूयाईयं एयाणं धम्मवं किंच ॥ १००४॥
व्याख्या - विघ्नविघातनहेतोरुपसर्गनिवारकत्वेन आत्मन इति शेषः चैत्यगृहरक्षणाच्च देवभवनपालनात् नित्यमपि सर्वदा न केवलमेकदेत्यपि शब्दार्थः कुर्याद्विदध्यात् पूजादिकमादिशब्दात्कायोत्सर्गादिप्रकार: एतेषां ब्रह्मशांत्यादीनां धर्म्मवान् धामिक: अयमभिप्रायो यदि मोक्षार्थमेतेषां पूजादि क्रियते ततो दुष्टं, विघ्नादिवारणार्थं त्वदुष्टं, तदिति किंचेत्यभ्युच्चय इति गाथार्थः ॥ १००४॥
अभ्युच्चयमेवाह -
मिच्छत्तगुणजुयाणं निवाइयाणं करिंति पूयाई । इहलोकए सम्मत्तगुणजुयाणं न उण मूढा ॥१००५॥