________________
૨૫ર
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર धुपचारेणासन्नभूताः साक्षितां प्रतिपद्यंते चैत्यवन्दनामध्ये च तेषामुपचारः कायोत्सर्गस्तुतिदानादिना क्रियतेऽन्यस्य तत्रासंभवादश्रुतत्वाच्च ततश्चैवमायातं तथा चैत्यवन्दनामध्ये देवकायोत्सर्गादि करणीयमेव । अन्यथा तत्रान्यत्तदुपचाराभावे देवसाक्षिकत्वासिद्धेः चूर्णिकारेण तथैव व्याख्यातत्वान्निश्चीयते । तच्चैतद्देवसक्खियमितिसूत्रप्रामाण्यात् एवमेव पूर्वापरविरोधाभावादुक्तं च सूत्रत्वं ललितविस्तरायामप्यस्य तथा चोक्तं व्याख्यातं सिद्धेभ्य इत्यादिसूत्रमिति तथा इदमेव वचनं ज्ञापकमिति ॥ चवनं सूत्रं पर्यायौ एवं च सूत्रसिद्धा अप्येते नवअधिकारा इति सिद्धं ॥ તથા પત્ર ૩૦૪નો પાઠ :
सरणिज्जत्ति स्मरणीयाः क्षुद्रोपद्रवविद्रावणादिकृतेस्तद्गुणानुचिंतनादिनोपबृंहणीयाः सूचनीया इति यावत् यद्वा स्मारणीयाः प्रमादादिना विस्मृतं तत्करणीयं तत्तत्संघादिकार्यं च । ज्ञापनीया अथवा सारणीया प्रभावनादौ तत्र तत्र हिते कार्ये प्रवर्तनीयास्ते चात्राधिकारतया सम्यग्दृष्टयो देवा ज्ञातव्यास्तेषामेव स्मरणाद्यर्हत्वात् अर्हदादीनां तु वंदनीयत्वेन प्रागुक्तत्वात् स्मारणादिकर्तृत्वाच्च भणिष्यति च । तथा प्रवचनसुराः सम्यग्दृष्टयो देवास्तेषां स्मरणार्थं वैयावृत्यकरेत्यादिविशेषणद्वारेणोपबृंहणार्थं क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः । यद्वा तत्कर्त्तव्यानां वैयावृत्यादीनां प्रमादिना श्लथीभूतानां प्रवृत्यर्थमश्लशीभूतानां तु स्थैर्याय च स्मारर्णाज्ञापनात्तदर्थं सारणार्थं वा प्रवचनप्रभावनादौ हितकार्ये किं उत्सर्गः कायोत्सर्गः चरम इति शेषः इत्येतानि निमित्तानि प्रयोजनानि फलानीति यावदष्टौ चैत्यवन्दनाया भवन्तीति शेषः । इह च यद्यपि वैयावृत्यकरादयः स्वस्मरणाद्यर्थं क्रियमाणं कायोत्सर्ग न जानते तथापि तद्विषयकायोत्सर्गात्कर्तुः श्रीगुप्तश्रेष्ठिन इव विघ्नोपशमादिषु शुभसिद्धिर्भवत्येव । आप्तोपदिष्टत्वेनाव्यभिचारित्वात् यथा स्तेभनीयादिभिः