________________
२४०
ચતુર્થસ્તુતિયુક્તિનિર્ણયછેદનકુમાર वग्रे रूपदिदृक्षया स्थितवति प्रीते सुराणां प्रभौ । काये भागवते च नेत्रनिकरैर्वृत्तद्विषो लांछिते, संभ्रांतास्त्रिदशांगना कथमपि ज्ञात्वा स्तवं चक्रिरे ॥१॥ इत्यादिरूपेण स्तवनेन जघन्या चैत्यवंदना । अन्ये पुनः प्रणाममात्ररूपा जघन्यां चैत्यवंदनां वदंति । प्रणामस्तु पंचधा भवति । यथा - एकांगः शिरसो नामे । स द्वयंगः करयोर्द्वयोः त्रयाणां नमने व्यंगः करयोः शिरसस्तथा । चतुर्धा करयोर्जान्वोनमने चतुरंगकः । शिरसः करयोर्जान्वोः पंचांग: पंचमो मत इति । मध्यमा तु स्थापनार्हत्स्तवदंडकैकैकस्तुतिरूपेण युगलेन भवति अन्येत्वेवं व्याख्यानयंति दंडकानां शक्रस्तवादीनां पंचकं तथा स्तुतियुगलमिति समयभाषया स्तुतिचतुष्टयं ताभ्यां या वंदना सा मध्यमा सांप्रतं रूढ्या एकवारवंदनेत्यर्थः उत्कृष्टा तु विधिपूर्वकशक्रस्तवोपलक्षितपंचदंडकनिर्मिता जयवीयरायेत्यादिप्रणिधानपर्यन्ता चैत्यवंदना भवतीति । अन्ये पुनः शक्रस्तवपंचकेन निर्मिता शक्रस्तवपंचकभणनेनोत्कृष्टा चैत्यवंदना भवतीति व्याचक्षते ॥ एवं च शक्रस्तवपंचकं भवति उत्कृष्टचैत्यवंदनया वंदितुकामः साधुः श्रावको वा चैत्यगृहादौ गत्वा यथोचितप्रतिलेखितप्रमार्जितस्थंडिलस्त्रैलोक्यगुरौ विनिवेशितनयनमानसः संवेगवैराग्यभरो ज॑भमाणरोमांचकंचुकितगात्रः प्राप्तप्रकर्षहर्षवशविसर्पद्वाष्पपूरपूर्णनयननलिनः सुदुर्लभं भगवच्चरणारविंदवंदनमिति बहुमन्यमानः सुसंवृतांगोपांगो योगमुद्रया जिनसंमुखं शक्रस्तवमस्खलितादिगुणोपेतं पठति तदनु ऐर्यापथिकीप्रतिक्रमणं करोति ततः पंचविंशत्युच्छासमानं कायोत्सर्ग कृत्वा पारयित्वा लोगस्सुज्जोयगरेत्यादि परिपूर्णं भणित्वा जानुनी च भूमौ निवेश्य योजितकरकुशेशयस्तथाविधुसुकविकृतजिननमस्कारभणनपूर्वं शक्रस्तवादिभिः पंचभिर्दंडकैर्जिनमभिवंदते चतुर्थस्तुतिपर्यन्ते पुनः शक्रस्तवमभिधाय द्वितीयवेलं तेनैव क्रमेण वंदते तदनु चतुर्थशक्रस्तवभणनानंतरं स्तोत्रं पवित्रं भणित्वा जयवीयरायइत्यादिकं च