________________
૨ ૧૫
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ऽतिचारभीरूतया सम्यगस्खलितादिगुणसंपदुपेतं तदर्थानुस्मरणगर्भमेव प्रणिपातदंडकसूत्रं पठति ॥
तदेतदसौ साधुः श्रावको वा यथोदितं पठन्पंचांगं प्रणिपातं करोति तत उत्तिष्ठति जिनमुद्रया पठति चैतत्तत्सूत्रं - अरहंत चेइयाणमित्यादि । कायोत्सर्गान्ते यद्येक एव ततो णमोऽरहंताणमिति नमस्कारेणोत्सार्य स्तुतिं पठति । अथ बहवस्तत एक एव स्तुतिं पठत्यन्ये तु कायोत्सर्गेणैव तिष्ठंति यावत् स्तुतिपरिसमाप्ति ।
अत्र चैवं वृद्धा वदंति - यत्र किलायतनादौ वंदनं चिकीर्षितं तत्र यस्य भगवतः संनिहितं स्थापनारूपं तं पुरस्कृत्य प्रथमकायोत्सर्गः स्तुतिश्च तथा शोभनभावजनकत्वेन तस्यैवोपकारित्वात् ततः सर्वेऽपि नमस्कारोच्चारणेन पारयंतीति । पुनरत्रांतरेऽस्मिन्नेवावसर्पिणीकाले ये भारते तीर्थकृतस्तेषामेवैकक्षेत्रनिवासादिनाऽसन्नतरोपकारित्वेन कीर्तनाय चतुर्विंशतिस्तवं पठति पठन्ति वा स चायं लोगस्सुज्जोयगरेत्यादि ॥ एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एव अर्हच्चैत्यानां कायोत्सर्गकरणायेदं पठति पठंति वा सव्वलोए अरहंत चेइयाणं करेमि काउसग्गमित्यादि यावद्वोसिरामि । कायोत्सर्गं च पूर्ववत् तथैव च स्तुतिर्नवरं सर्वतीर्थकराणामन्यथान्यकायोत्सगर्गोऽन्यस्तुतिरिति न सम्यक् ॥ सर्वतीर्थकराणां स्तुतिरुक्ता, इदानीं तैरुपदिष्टस्यागमस्य येन ते भगवंतस्तदभिहिताश्च भावाः स्फुटमुपलभ्यते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनमत इदमुच्यते 'पुक्खर' इत्यादि । एवं प्रणिधानं कृत्वैतत्पूर्विका क्रिया फलायेति श्रुतस्येव कायोत्सर्गसंपादनार्थं पठति पठंति वा "सुयस्स भगवओ करेमि काउसग्ग"मित्यादि यावत् वोसिरामि ॥ कायोत्सर्गप्रपंचः प्राग्वत्तथैव च स्तुतिर्यदि परं श्रुतस्य समानजातीयबृहकत्वात् अनुभवसिद्धमेतत्तद्ज्ञानां चलति समाधिरन्यथेति प्रकटं ऐतिह्यं चैतदेवमतो न बोधनीयमिति ॥ पुनरनुष्ठान