________________
२०४
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
આરોપ તથા સંભાવનાથી શ્રી હરિભદ્રસૂરિજીને શ્રી સિદ્ધર્ષિજીએ ગુરુ માન્યા, એ વચન વિદ્વાનોને તો સંભવ ન થાય તથા મલધારીવિશદવર બિરુદધારક શ્રી અભયદેવસૂરિ નિરીહચૂડામણી શિષ્ય, એક લાખ ગ્રંથના કર્તા, શ્રી અનુયોગદ્વારવૃત્તિકારક શ્રી હેમચંદ્રસૂરિસંતાનીય શ્રી રાજશેખરસૂરિષ્કૃત ચોવીશ પ્રબંધ પ્રકરણમાં શ્રી હરિભદ્રસૂરિશિષ્ય શ્રી સિદ્ધર્ષિનો પ્રબંધ આવી रीते सजेस छे. ते पाठ :
अत्रांतरे श्रीमालपुरे कोऽपि धनी श्रेष्ठीजनः चतुर्मासके सपरिकरो देवतायतनं व्रजन् सिद्धाख्यं राजपुत्रं द्यूतकारं युवानं देयकनकपदे निर्द्दयैर्द्युतकारैर्गर्त्तायां निक्षिप्तं कृपया तद्देयं दत्वा अमोचयत् गृहमानीय अभोजयत् अपाठयत् पर्यणाययत् माता प्रागप्यासीत् पृथग् गृहमंडनिका श्रेष्ठप्रसादाद्धनं सिद्धो रात्रौ अतिकाले एति । लेख्यकलेखलेखनपरवशत्वात् श्वश्रूस्नुषे अतिनिर्विण्णे अतिजागरणात् वध्वा श्वश्रूरुक्ता । मातः पुत्रं तथा बोधय यथा निशि सकाले एति । मात्रा उक्तः सः वत्स निशि शीघ्रमेहि यः कालज्ञः स सर्वज्ञः । सिद्धः प्राह मातर्येन स्वामिनाऽहं सर्वस्वदानेन जीवितव्यदानेन च समुद्धृतः तदादेशं कथं न कुर्व्वे तूष्णीकेन स्थिता माता अन्यदालोचितं श्वश्रूस्नुषाभ्यां अस्य चिरादागतस्य निशिद्वारं नोद्घाटयिष्यावः द्वितीयरात्रौ अतिचिराद्वारमागतः सः कटं खटखटापयति ते तु न ब्रूतः तेन क्रुद्धेन गदितं किमिति द्वारं नोद्घाटयेथां ? ताभ्यां मंत्रितपूर्विणीभ्यामुक्तं यत्रेदानीं द्वाराणि उद्घाटितानि तत्र व्रज । तच्छ्रुत्वा क्रुद्धः गतः तत्रोद्घाटे हट्टे उपविष्टान् सूरिमंत्रस्मरणपरान् श्रीहरिभद्रान् दृष्टवान् सांद्रचन्द्रके नभसि देशनाबोधः व्रतं सर्व्वविद्यता दिव्यं कवित्वं हंसपरमहंसवत् विशेषतर्कान् जिघृक्षु बौद्धांतिकं जिगमिषुर्गुरूनवादीत् प्रेषय तात बौद्धपार्श्वे गुरुभिर्गदितं तत्र मागा: मनः परावर्तो भावी ऊचे युगांतेऽपि नैवं स्यात् पुनः गुरवः प्रोचुः गतः परावर्त्यसे चेत्तदाऽस्मद्दत्तं वेषं अत्रागत्यास्मभ्यं ददीयाः उररीचक्रे सः गतस्तत्र पठितुं लग्नः सुघटितैस्तत्कुतक्कैः परावर्तितं मनः तद्दीक्षां ललौ वेषं दातुं उपश्रीहारिभद्रं